पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अष्टमः सर्गः । समदिवसनिशीथं सङ्गिनस्तत्र शम्श्रीः शतमगमदृतूनां (१सार्धमेका निशेव । न (२)स सुरतसुखस्थश्छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गत()तज्जलौघेः ॥ १॥ इव कवद्भावः । सिविषुः सेवितुमिच्छुः सन् । विजयानास्त्र चिई व्याः सखी तया निवेदितः ।एतदर्थमागतेति शापितो- प्रीत्यर्थः। दर्शनप्रणयिनाम् अदृश्खताम् आजगाम। दर्शनं न ददावित्यर्थः ॥ ४० ॥ समेति । निशीथोऽत्र निशमात्रलक्षकः । ममदिवस- निशीथं तुख्याहर्निशं यथा तथा तण तस्यां पार्वत्यां सङ्गिनः प्रासत स्ख। रात्रिंदिवं रममाणस्येत्यर्थः । शभोः शिवस्य सार्धम् अर्धेन सहितम् ऋतूनां शतं पञ्चाशदुत्तरं मानुषमानेन पञ्चविंशतिवर्षाणि अगमन् । स शत्रुः समुद्रान्तर्गतः समुद्रस्य अन्तर्बतिर्वलनो वडवाग्निरिव तज्जलौघेः तस्य समुद्रस्य प्रवाहैरिव सुरतसुखेभ्यः छिब्रह्मणो निवृत्ताभिलाषो न बभूव। किन्तु चिरमवर्धतेत्यर्थः ॥ ८१ ॥ इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथ-मुशिविर चितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासछतौ कुमारसम्भवे महाकाव्ये उमासुरतवर्णनं नाम अष्टमः सर्गः । (१) शाप । (२) तु, च। (३) तच्चालेभ्यः, तब्बालेषु ।