पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
कुमारसम्भवे


इत्योषधिप्रस्थविलासिनीनां
शृण्वन् कथाः श्रोणसुखास्त्रिनेत्रः ।
केयूरचूर्णायतलाज(३)[१]मुष्टिं
हिमालयस्यालयमाससाद ॥ ६९ ॥
(४)[२]तत्रावतीर्याच्युतदत्तहस्तः
शरद्वनाद्दीधितिमानिवोः।
क्रान्तानि पूर्वं कमलासनेन
(५)[३]कच्यान्तराण्यद्रिपतेर्विवेश ॥ ७० ॥
तमन्वगिन्द्रप्रमुखाश्च देवाः
सप्तर्षि पूर्वाः परमर्षयश्च ।

 इतीति । त्रिनेत्रस्यम्वकः । त्रिनेत्रिनयनशब्दयोः "तुमादिषु च” इति णत्वाभावः । इतीत्यमोषधिप्रस्थविलासिनीनां सम्बन्धिनीः श्रोत्रसुखः श्रवणमधराः कथा आलापान् गृखन् केयूरैरङ्गदैशृणीतता लाजानां सुष्टयो यस्मिंस्तं तयोक्तम् । तत्रावकौणं आचारलाजा अन्तराल एवाभ्रधूर्णयेड् पिष्यन्त इति पुरन्धुिजनसम्बन्धातिशयोक्तिः। हिमासयस्य हिमवत आलयं भवनमाससाद ॥ ६९ ॥

 तत्रेति । तत्र हिमवदालयेऽच्युतेन विष्णुना दत्तहस्तो वितीर्णाहस्तावलम्बः सन्। शरद्वनाच्छरन्मेघात् । शरद्विशेषणको घस्य शुभत्व ' गम्यते । दौधितिमान् सूर्य इवोक्ष्णो वृवादवतीर्यं कमलासनेन पूर्वमग्रे क्रान्तानि प्रविष्टान् अद्रिपतेः कस्यान्तराणि गेहप्रकोष्ठान्तराणि विवेश ॥ “कच्या कट्टे वरत्रायां काचां गेहं प्रकोष्ठके’ इति यादवः ॥ ७० ॥


  1. दृष्टिः, मुष्टिः ।
  2. ततः।
  3. कक्षान्तराणि ।