सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२७
सप्तमः समी. ।


गणाश्च गिर्यालय(६)[]मभ्यगच्छन्
प्रशस्तमारम्भमिवोत्तमायः ॥ ७१ ॥
तत्वेश्वरो विष्टरभाग्यथावत
सरत्नमध्यें मधमच्च गव्यम्।
नवे दुकूले च (७)[]नगोपनौतं
प्रत्ययहौत्सर्वममन्त्र(८)[]वर्जम् ॥ ७२ ॥

 तमिति । तमौखरमन्वगनुपदम् । अव्ययमेतत् । ‘प्रन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्” इत्यमरः । इन्द्रप्रमुख देवाश्च सप्तर्षयः पूर्वं येषां ते सप्तर्षिपूर्वाः । ‘न बडुव्रीह” इति सर्वनामसं ज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानै’ इति तत्पुरुषः । गणः प्रमथाश्च उत्तमाथ महाप्रयोजनाः प्रशस्तं प्रदृष्टम् ! अमोघमित्यर्थः । आरभ्यत इत्यारभ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्यगच्छन् । प्राविशन्नित्यर्थः ॥

 तत्रेति । तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः । उपविष्ट इत्यर्थः । यथावद्यथार्हम् । विधिवदित्यर्थः । सरत्र रत्नसहितमध्यं मघार्थं जलम् । मधु क्षौद्रमम्त्रिस्तौति मधुमत् । गवि भवं गव्यम् । दधि च। मधुपर्कमित्यर्थः । `दधिमधुन सर्पिर्मध्वलाभःइत्याखलायनम्टास्त्रात्॥ नवे दुकूले चेति सर्वं नगोपनीतं हिमवदानीतमर्यादिकं मन्त्रान्वजैयित्वा मन्त्रवर्जम् । ततो नञ्समासः । अमन्त्रवर्जम् । मन्वत्र वर्जयित्व त्यर्थः । ‘द्वितीयायां च” इति णमुल्प्रत्यय इत्याह न्यासकार‘अनुदात्त पदमेकवर्जम्” इत्यत्र । प्रत्वप्रीत् नक्तवान् ॥ ७२ ॥


  1. अन्वगच्छन्।
  2. नगोपनीते ।
  3. बन्यम् ।