एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
कुमारसम्भवे
दुकूलेति । अथ दुकूलवामा: । दुकूलं वसन इत्यर्थः। म हरो विनीतैरनुद्धतैरवरोधेषु ये दक्षास्तैरवरोधदकैर्ब समीपं निन्ये नीतः। कथमिव । स्फ ,ट ने ननां राजिर्यस्य स उटकमस्यास्तौति उदन्वान् समुद्रः । `उदन्वानुदधे च” इति निपातनात् साधुः ॥ नवैरचिरोदितैश्चन्द्रकिरणैर्वेलासमीपमिव ॥ ७३ ॥
तयेति । आननं चन्द्र इव ॥ इति उपमितसमासः । प्रह्वशाननचन्द्रस्य कान्तिर्यस्याः तया तथोक्तया तया कुमय शरदा लोक इव संसृज्यमानः सङ्गच्छमानः शिवश्चकृषि कुमुदानव तानि प्रफुल्लानि यस्य स तथोतः । चेतः सलिलमिव तप्रसङ्ग यस्य स तथोक्तः । प्रसन्नचेतःसलिलोऽभूत् । शरल्लोकयोरपि यथोचितं विशेषणानि योज्यानि ॥ ७४ ॥
तयोरिति ॥ तयोः बधूवरयोः समापत्तिषु यदृच्छया सङ्गतिष कातराणि चकितानि । "अधीर कातर’ इत्यमरः ॥