रुदिताक्रन्दिताश्लीलाद्यनिष्टः शब्दो यस्मिन्देशे सा भूमिरनि
धुशब्देति कथ्यते ।
यमः
‘गोगजाश्वादिपृष्ठेषु कुत्रिमायां तथा भवि ।
आपद्यपि च कष्टायां न कुर्यात्पितृतर्पणम् ।
म्भवात् । पितृतर्पणं श्राद्धकर्म। कृत्रिमा द्वित्र्यादिभूमिः । तथा पर
भूमिषु अनिषिद्धास्वपि श्राद्ध नानुष्ठेयम् ।
‘पारक्यभूमिभागे तु पितृशा निर्वपेतु यः ।।
तद्भूमिपितृभिः सर्वं तस्य कर्म विहन्यते” ।
“‘तस्माच्छद्धन कर्माणि पुण्येष्वायतने षु च ।
नदीषु देवखातेषु स्वभूमौ च प्रयत्नतः ।
त्व स्वसत्तामापाद्य श्रद्धाद्यनुष्ठेयमिति । क्वचित्परकोयत्वमपि
नास्ति तदाह सग्रहंकार.
‘अटव्यः पर्वताः पुण्याः नद्यस्तीर्थानि यानि च ।
सर्वाण्यस्वामिकान्याहुहि तेषु परिग्रहः ॥
इति श्रीमद्युदमीदृसिनचरणयुगलशरोरुहभ्रमरसकलभूमण्डलत्रण्डन
समस्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरधीन्म
हाराजाधिराजदलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे देशनिरूपणम्