पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
नृसिहप्रसादे

पि स्मर्यते । यथा

“सिन्धुसौवीरसौराष्ट्रान् तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गधान् गत्वा संस्कारमर्हतीति ॥

पुनःसंस्कार कर्मणि ये ग्राह्य धर्मा ये च त्याज्यास्तेऽभिहिता:-

“मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणीति ।

देशान्तरगमननिषेधो दृष्टार्थ एव निषिध्यते नादृष्टार्थस्तीर्थया

त्रानिवन्धनः ।

दृष्टार्थगमने दोषस्तीर्थाद्यर्थं न दुष्यति ।
न जातु देशदोषोऽस्ति तोयै क्षेत्रे च दैवैते इति स्मरणात् ।

अत एवाहुर्महर्षय.

कीकटेषु गया पुण्या पुण्यं राजष्ठं वनमिति ।

वायुपुराणे

“त्रिशङ् वर्जयेद्देशं सर्वं द्वादशयोजनम् ।
उत्चरेण महानद्या दक्षिणेन तु कीटकान् ।।
देशस्त्रैशङ्कवो नाम आद्धकर्मणि गर्हितः" इति ।

तथा --

‘‘कारस्कराः कलिङ्गाश्च सिन्धोरुत्तरतस्तथा ।
प्रणष्टश्राद्धकर्माणो देशा वज्र्याश्च यत्नतः । ।
प्रनष्टं श्राद्धकर्म येषु देशेषु ते प्रनष्टश्राद्धकर्माणः ।
‘‘सङ्गणनिष्टशब्दां च जन्तुव्याप्तां सकर्दमाम् ।
पूतिगन्धतथा भूमिं वर्जयेच्छुद्धकर्मणि ।