पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
श्राद्धसारे श्राद्धदेशः

रुदिताक्रन्दिताश्लीलाद्यनिष्टः शब्दो यस्मिन्देशे सा भूमिरनि
धुशब्देति कथ्यते ।
यमः

‘गोगजाश्वादिपृष्ठेषु कुत्रिमायां तथा भवि ।
आपद्यपि च कष्टायां न कुर्यात्पितृतर्पणम् ।

गवाश्वादिपृष्ठेष्विति तद्युक्तरथेषु । अग्नौ तिष्ठतीतिवत्त्रास

म्भवात् । पितृतर्पणं श्राद्धकर्म। कृत्रिमा द्वित्र्यादिभूमिः । तथा पर
भूमिषु अनिषिद्धास्वपि श्राद्ध नानुष्ठेयम् ।

‘पारक्यभूमिभागे तु पितृशा निर्वपेतु यः ।।
तद्भूमिपितृभिः सर्वं तस्य कर्म विहन्यते” ।

तस्य श्राद्धकर्तुः तद्भूमिस्वामिकैः पितृभिविहन्यते इत्यर्थः।

“‘तस्माच्छद्धन कर्माणि पुण्येष्वायतने षु च ।
नदीषु देवखातेषु स्वभूमौ च प्रयत्नतः ।

ततश्चायं शास्त्रार्थः । परसत्ताकामु भूमिषु किञ्चिद्वितादि द

त्व स्वसत्तामापाद्य श्रद्धाद्यनुष्ठेयमिति । क्वचित्परकोयत्वमपि
नास्ति तदाह सग्रहंकार.

‘अटव्यः पर्वताः पुण्याः नद्यस्तीर्थानि यानि च ।
सर्वाण्यस्वामिकान्याहुहि तेषु परिग्रहः ॥


इति श्रीमद्युदमीदृसिनचरणयुगलशरोरुहभ्रमरसकलभूमण्डलत्रण्डन
समस्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरधीन्म
हाराजाधिराजदलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे देशनिरूपणम्