पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नृसिंहप्रसादे

१०४
नृसिहप्रसादे

अथ श्राद्धकालाः ।


ते चामावस्याष्टकादयः । तदाह योगी--

“अमावास्याऽष्टकाद्धिः इष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसम्पत्तिर्विषुववर्यसङ्क्रमः ।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः" इति ।

यस्यां तिथौ चन्द्रमा न दृश्यते साऽमावस्या तत्र श्राद्धे नित्य

माघश्यकमिति यवत् ।

श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यहमेव चेति।"

रौगाक्षिस्मरणात् ।

इन्दुक्षयोऽमावास्या, अष्टकाश्चतस्रः मार्गशीर्षादिमासचतुष्टया
परपक्षाष्टम्यः ।
तथाऽऽ३वलायनः

‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका” इति ।

ननु द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्यं इति वंच

नात्कथं चतस्रोऽष्टका इत्यभिहितं, सत्यम् , एकैकस्मिन्मासि तिस्र
स्तिस्रः सम्पद्यन्ते इति द्वादशपरिपूर्तिरभ्युपेयते । अष्टमीग्रहणेन
सन्निधानात्सतीनवम्योत्रंहणम् ।
तथा च शौनकः
‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्षट्क” इति । ग्र
त्रापि श्राद्धमावश्यकम् ।