सूर्यसिद्धान्त ग्रहयुत्यधिकारः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[ग्रहयुति]
७.०१क ताराग्रहाणाम् अन्योन्यम् स्याताम् युद्धसमागमौ /

७.०१ख समागमः शशाङ्केन सूर्येणास्तमनम् सह //

७.०२क शीघ्रे मन्दाधिके +अतीतः सम्योगो भवितान्यथा /
७.०२ख द्वयोः प्राग्यायिनोर् एवम् वक्रिणोस् तु विपर्ययात् //

७.०३क प्राग्यायिन्य् अधिके +अतीतो वक्रिण्य् एष्यः समागमः /
७.०३ख ग्रहान्तरकलाः स्वस्वभुक्तिलिप्ताः समाहताः //

७.०४क भुक्त्यन्तरेण विभजेद् अनुलोमविलोमयोः /
७.०४ख द्वयोर् वक्रिण्य् अथैकस्मिन् भुक्तियोगेन भाजयेत् //

७.०५क लब्धम् लिप्तादिकम् शोध्यम् गते देयम् भविष्यति /
७.०५ख विपर्ययाद् वक्रगत्योर् एकस्मिम्स् तु धनव्ययौ //

७.०६क समालिप्तौ भवेताम् तौ ग्रहौ भगणसम्स्थितौ /
७.०६ख विवरम् तद्वद् उद्धृत्य दिनादिफलम् इष्यते //

७.०७क कृत्वा दिनक्षपामानम् तथा विक्षेपलिप्तिकाः /
७.०७ख नतोन्नतम् साधयित्वा स्वकाल् लग्नवशात् तयोः //

७.०८क विषुवच्छाययाम्यस् तद्विक्षेपाद् द्वादशोद्धृतात् /
७.०८ख फलम् स्वनतनाडीघ्नम् स्वदिनार्धविभाजितम् //

७.०९क लब्धम् प्राच्याम् ऋणम् सौम्याद् विक्षेपात् पश्चिमे धनम् /
७.०९ख दक्षिणे प्राक्कपाले स्वम् पश्चिमे तु तथा क्षमः //

७.१०क सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः /
७.१०ख विकलाः स्वम् ऋणम् क्रान्तिक्षेपयोर् भिन्नतुल्ययोः //

७.११क नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने /
७.११ख शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाव् इदम् स्मृतम् //

७.१२क तात्कालिकौ पुनः कार्यौ विक्षेपौ च तयोस् ततः /
७.१२ख दिक्तुल्ये त्व् अन्तरम् भेदे योगः शिष्टम् ग्रहान्तरम् //

७.१३क कुजार्किज्ञामरेज्यानाम् त्रिम्शदर्धार्धवर्धिताः /
७.१३ख विष्कम्भाश् चन्द्रकक्षायाम् भृगोः षष्टिर् उदाहृता //

७.१४क त्रिचतुः कर्णयुत्याप्तास् ते द्विघ्नास् त्रिज्यया हताः /
७.१४ख स्फुटाः स्वकर्णास् तिथ्याप्ता भवेयुर् मानलिप्तिकाः //

७.१५क छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् /
७.१५ख ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे सम्प्रदिश्यते //

७.१६क पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग् भ्रमसम्स्थितौ /
७.१६ख ग्रहान्त्रेण विक्षिप्ताव् अधो हस्तनिखातगौ //

७.१७क छायाकर्णौ ततो दद्याच् छायाग्राच् छङ्कुमूर्धगौ /
७.१७ख छायाकर्णाग्रसम्योगे सम्स्थितस्य प्रदर्शयेत् //

७.१८क स्वशङ्कुमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यताम् इतौ /
७.१८ख उल्लेखम् तारकास्पर्शाद् भेदे भेदः प्रकीर्त्यते //

७.१९क युद्धम् अम्शुविमर्दाख्यम् अम्शुयोगे परस्परम् /
७.१९ख अम्शाद् ऊने +अपसव्याख्यम् युद्धम् एको +अत्र चेद् अणुह् //

७.२०क समागमो +अम्शाद् अधिके भवतश् चेद् वलान्वितौ /
७.२०ख अपसव्ये जितो युद्धे पिहितो +अणुर् अदीप्तितान् //

७.२१क रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः /
७.२१ख उदक्स्थो दीप्तिमान् स्थूलो जयी याम्ये +अपि यो बली //

७.२२क आसन्नाव् अप्य् उभौ दीप्तौ भवतश् चेत् समागमः /
७.२२ख स्वल्पौ द्वाव् अपि विध्वस्तौ भवेताम् कूटविग्रहौ //

७.२३क उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी /
७.२३ख शशाङ्केनैवम् एतेषाम् कुर्यात् सम्योगसाधनम् //

७.२४क भावाभावाय लोकानाम् कल्पनेयम् प्रदर्शिता /
७.२४ख स्वमार्गगाः प्रयान्त्य् एते दूरम् अन्योन्यम् आश्रिताः //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]