सूर्यसिद्धान्त चन्द्रग्रहणाधिकारः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[चन्द्रग्रहण]
४.०१क सार्धानि षट्सहस्राणि योजनानि विवस्वतः /
४.०१ख विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम् //

४.०२क स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ /
४.०२ख रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः //

४.०३क शशाङ्ककक्षागुणितो भाजितो वा +अर्ककक्षया /
४.०३ख विष्कम्भश् चन्द्रकक्षायाम् तिथ्याप्ता मानलिप्तिका //

४.०४क स्फुटेन्दुभुक्तिर् भूव्यासगुणिता मध्ययोद्धृता /
४.०४ख लब्धम् सूची महीव्यासस्फुटार्कश्रवणान्तरम् //

४.०५क मध्येन्दुव्यासगुणितम् मध्यार्कव्यासभाजितम् /
४.०५ख विशोध्य लब्धम् सूच्याम् तु तमो लिप्तास् तु पूर्ववत् //

४.०६क भानोर् भार्धे महीच्छाया तत्तुल्ये +अर्कसमे +अपि /
४.०६ख शशाङ्कपाते ग्रहणम् कियद्भागाधिकोनके //

४.०७क तुल्यौ राश्यादिभिः स्याताम् अमावास्यान्तकालिकौ /
४.०७ख सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकौ समौ //

४.०८क गतैष्यपर्वनाडीनाम् स्वफलेनोनसम्युतौ /
४.०८ख समलिप्तौ भवेताम् तौ पातस् तात्कालिको +अन्यथा //

४.०९क छादको भास्करस्येन्दुर् अधःस्थो घनवद् भवेत् /
४.०९ख भूच्छायाम् प्राङ्मुखश् चन्द्रो विशत्य् अस्य भवेद् असौ //

४.१०क तात्कालिकेन्दुविक्षेपम् छाद्यच्छादकमानयोः /
४.१०ख योगार्धात् प्रोज्झ्य यच्छेषम् तावच् छन्नम् तद् उच्यते //

४.११क यद् ग्राह्यम् अधिके तस्मिन् सकलम् न्यूनम् अन्यथा /
४.११ख योगार्धाद् अधिके न स्याद् विक्षेपे ग्राससम्भवः //

४.१२क ग्राह्यग्राहकसम्योगवियोगौ दलितौ पृथक् /
४.१२ख विक्षेपवर्गहीनाभ्याम् तद्वर्गाभ्याम् उभे पदे //

४.१३क षष्ठ्या सम्गुण्य सूर्येन्द्वोर् भुक्त्यन्तरविभाजिते /
४.१३ख स्याताम् स्थितिविमर्दार्धे नाडिकादिफले तयोः //

४.१४क स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्ठिभाजिताः /
४.१४ख लिप्तादि प्रग्रहे शोध्यम् मोक्षे देयम् पुनः पुनः //

४.१५क तद्विक्षेपैः स्थितिदलम् विमर्दार्धे तथा +असकृत् /
४.१५ख सम्साध्यम् अन्यथा पाते तल्लिप्तादिफलम् स्वकम् //

४.१६क स्फुटतिथ्यवसाने तु मध्यग्रहणम् आदिशेत् /
४.१६ख स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस् तु सम्युते //

४.१७क तद्वद् एव विमर्दार्धनाडिकाहीनसम्युते /
४.१७ख निमीलनोन्मीलनाख्ये भवेताम् सकलग्रहे //

४.१८क इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः /
४.१८ख भुक्त्यन्तरम् समाहन्यात् षष्ट्याप्ताः कोटिलिप्तिकाः //

४.१९क भानोर् ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसम्गुणाः /
४.१९ख स्फुटस्थित्यर्धसम्भक्ताः स्फुटाः कोटिकलाः स्मृता //

४.२०क क्षेपो भुजस् तयोर् वर्गयुतेर् मूलम् श्रवस् तु तत् /
४.२०ख मानयोगार्धतः प्रोज्झ्य ग्रासस् तात्कालिको भवेत् //

४.२१क मध्यग्रहणतश् चोर्ध्वम् इष्टनाडीर् विशोधयेत् /
४.२१ख स्थित्यर्धान् मौक्षिकाच् छेषम् प्राग्वच् च्छेषम् तु मौक्षिके //

४.२२क ग्राह्यग्राहकयोगार्धाच् छोध्याः स्वच्छन्नलिप्तिकाः /
४.२२ख ताद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिम् पदम् //

४.२३क कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः /
४.२३ख मध्येन लिप्तास् तन्नाड्यः स्थितिवद् ग्रासनाडिकाः //

४.२४क नतज्या +अक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् /
४.२४ख वलनाम्शा सौम्ययाम्याः पूर्वापरकपालयोः //

४.२५क राशित्रययुताद् ग्राह्यात् क्रान्त्यम्शैर् दिक्समैर् युताः /
४.२५ख भेदे +अन्तराज् ज्या वलना सप्तत्यङ्गुलभाजिता //

४.२६क सोन्नतम् दिनमध्यार्धम् दिनार्धाप्तम् फलेन तु /
४.२६ख छिन्द्याद् विक्षेपमानानि तान्य् एषाम् अङ्गुलानि तु //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]