किन्नर्यः-
‘कविससिदासिदणाआ कन्डइदङ्गा अ कविळभूदारा । |
कपिशसितासितनागाः कण्टकिताङ्गाश्व कपिलभूधाराः ।
अपसरत कुटिलकीटा: देवीपर्यङ्कपार्श्वतो मशकाः ।।
- ( इति गायन्ति )
{{( निद्रालसा निम्बवती निमीलयति लोचने )
किन्नर्यः– गम्यतामस्माभिः काचिदनुपालयन्ती देवीं दूरे तिष्ठतु ।
- (निष्क्रान्ताः )
- (निम्बवती गाढ निद्राति )
( प्रविश्य प्रदोषः प्रसूनं निष्पिष्य रसेन निम्बवतीपक्ष्मणि सिञ्चन्।)
यस्ते निद्रावसाने प्रथममवतरत्यक्षिमार्गे शरीरी |
- (इति निष्क्रान्तः)
- (ततः प्रविशति वसन्तः कौमुदी च ।)
वसन्तः -- सखि वसन्तमयजीविते, कान्तारभ्रमणेनाध्वश्रान्तेव दृश्यसे । तत्वतो विस्मृतवानस्म्यध्वानमात्रयोर्गाढान्धतमसे । यदि त रोचतेऽत्रैव विश्रम्य मार्गश्रममपनयावः ।
कौमुदी- भवतु विदूर एव शेष्व। अहमप्युपधायैतत् किञ्चिदुन्नतं सरित्तटमत्रैव शये । V. 5