पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
वासान्तिकस्वप्ने

वसन्तः--- आवामेकमेवोपधाय शेवहे । भिन्नशरीरयोरप्यावयोर्मनस्त्वेकमेव हि ।

कौमुदी– यद्यहमनुकम्पनीया ततः कुरुष्व दूरत एव शय्याम् ।

वसन्तः-- अनुरागेणेदं प्रार्थ्यते । करोमि न कदाsपि मिथ्यावादम् । शयनेऽप्येकस्मिन् स्थले नोल्लङ्घयिष्याम्यवधिम् । कौमुदी-- नाथ, न कुर्यां मनस्यलीकवादी त्वमिति । क्वानुरागः क्व च कन्यकाजनपरिपालनीया। लोकमर्यादा । तद्दूरत एव कार्यतां शय्या । यावदयुः क्षणमपि न विस्मर्तव्योऽयं दासीजनः । वसन्तः- अस्तु को दोषः । तथैव कुर्याम् (कतिचित्पदानि गत्वा ) अहमत्रैव । अयि मुग्धे, न विस्मरणीय आवयोः प्रणयप्रबन्धो जन्मान्तरेऽपि ।

कौमुदी-- साधु साधु । (उभौ निद्रामनुभवतः ।) ततः प्रविशति प्रमोहः ।)

प्रमोहः-

भ्रान्त्वापि सर्वविपिनं नाहं पश्यामि देवनिर्दिष्टम् ।
कास्तेऽवन्तीतरुणः कुसुमरसं लोचनेऽस्य सिञ्चेयम् ॥
सूचिभेद्यं तमो भाति निर्निनादमिदं वनम् ।
(कौमुदीवसन्तौ पश्यन् ।)
कावेतौ सुकुमाराङ्गौ निद्रतः किञ्चिदन्तरे ।। २६ । ।
स एवायं युवा नूनं सैवैषा मत्तकाशिनी ।
धिक्कृत्यैनां हि निद्राति प्रदोषेणोक्तमेव तत् ॥ २७ ॥