पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
द्वितीयोऽङ्कः ।

दीनेयमनुरागेण भूतले धूलिधूसरे
अहो विधिवशाद्धाला ह्यनुशेतेऽतिरागिणी ॥ २८ ॥
विद्रावयामि नैर्गुण्यमेतस्यास्यां चिरोद्गतम् ।
प्रसूनरससेकेन निद्रामीलितचक्षुषि ।। २९ ॥

(तथा कृत्वा ।) निद्राविरामे तरुणीमेनामेव साक्षात्कृत्यास्यामनुरक्तो भव । अहमपि प्रदोषं विज्ञापयामि ।

(इति निष्क्रान्तः ।
(ततः प्रविशति मकरन्दस्तमनुधावन्ती सौदामिनी च ।)

सौदामिनी— तिष्ठ तिष्ठ कान्त मकरन्द, हंस्यपि मां मन्दभागिनीम् ।

मकरन्दः- (सक्रोधम् ।) अयि मूढे साहसिके, गच्छ गच्छ सर्वधा माऽनुसर मम् ।

सौदामिनी— मा मा मुञ्च नाथ, मामनाथामस्मिन् गाढान्धतमसे।

मकरन्दः-– तिष्ठात्रैव । नियतगतेिर्हि तादृशी । अहमेक एवापसरामि ।

(इति निष्क्रान्तः )

सौदामिनी-- हन्त दारुणमिदं दैवदुर्विलसितम् ।

चरणौ रुजतस्सद्यः सुदूरभ्रमणेन मे ।
निश्वासश्शश्वदायाति किं कर्तव्यमितः परम् ॥ ३० ॥

नेतः परं पदमपि चलितुं शक्ष्यामि । सर्वथा भाग्यवती कौमुद्येव । यतः युवमनोहारी तत्कटाक्षः । केन वा कारणेन शोभते तदपाङ्गः । न ह्यनवरताश्रुधारया । तथा चेन्मदक्षियुगलमपि ताद्दशं भवेत् ।