पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
वासान्तिकस्वप्ने

अहो भाग्यमहो भाग्यं कामुद्यावर्धतेऽधुना ।
असंशयमहं रूपहीना भीता मृगा अपि ।। ३१ ।।
पिशाचीमिव मां दृष्ट्वा धावन्ति परितो यतः।
न चित्रं मकरन्दोऽयं मुक्त्वा मामन्यतो गतः ।। ३२ ।।

कः पुनरयमादर्शोऽप्रशस्तो यो मां दुर्भगां कौमुद्य आत्मगणयितुं प्रैरयत् । (इति परिक्रामन्ती । भूमौ चक्षुर्निक्षिप्य कोऽयम् ? वसन्त !-- भूतले-- मृतो वा सजीवो वा। । ह्यसृक्क्षतादयो दृश्यन्ते । (वसन्तं स्पृष्टवा ) वसन्त, यदि सचेतः स्युद्धाटय पक्ष्मणी ।

वसन्तः-- (विबुध्य ) अयि रमणीये सौदामिनि, त्वत्कृतेऽः मप्यवतरेयम् । महान् खलु विधेस्त्वद्रूपनिर्माणे यत्नः । दृष्टा त्वयि ते हृदयमादर्शवत्प्रतिभाति । अहो ते त्रिजगज्जैत्रं लाण्यम् । कुत्रास्ते मकरन्दः ? नयाम्यद्यैव तं कृपणधारया स्मव्यां गतिम् ।

सैदामिनी-- वसन्त, मा तावत् । न तथा भाषस्व ते कौमुदीमयं कामयत इति । कौमुदी दृढं त्वय्येवानुरक्ता । त सत्यर्तिकारणं न पश्यामि ।

वसन्तः-- (सानुरागम् ) नेतः परं स्मरिष्यामि कौमुदीम् । एतावन्तं कालं कौमुदीमनुरक्त इत्यत्र भृशं दूये । अद्य युवतिलएमभूता त्वमेव विकिरस्यक्ष्णोरानन्दम् । अनभिज्ञतया तावन्म कौमुद्यनुसृता । अद्यैव किल विवेचना जाता । त्वदृतेऽन्यां द्रक्ष्यामि |