पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
द्वितीयोऽङ्कः ।
( इत्यलिङ्गितुमुत्तिष्ठति ।)

सौदामिनी-- ( सलज्जम्) कोऽयमद्यतनस्ते दुर्विनयप्ररोहः ! किं मामुपहससि यदि त्वयि बद्धप्रणया त्रिलोकसुन्दरी कौमुदी । अह भवितव्यता । यसर्वेषामप्युपहास्यतां नीता । किमेवं विडम्बनाया वा भाजनमहं सृष्टा । यन्मकरन्दो मां न्यक्कृत्यापसरतीत्यत्र न कोऽपि मयोपलब्धव्यः । भवन्त्वन्विष्यामि मकरन्दम् । (इति सजवं निष्क्रान्ता ।)

वसन्तः -- (दीर्घमुष्णं निश्वस्य ) कथं गता सौदामिनी । कौमुदीमत्र स्वपन्तीं नोपलब्घवत्येषा । (विचिन्त्य ) पुनरपि सौदामिनीं सौन्दर्यनिकेतनमनुनीय तामेव परिणेष्ये । क्व रमणीया सौदामिनी । क्व चेयं दुर्भगा कौमुदी । (कौमुदीं प्रति ) इयानेवावयोः प्रणयः । सौदामिन्यर्थे जीवितमपि त्यजेम् । तामननुनीय के मया जीव्यते ।

( इति सौदामिन्याक्षिप्तचित्तस्तामेवानुध्यायन्निष्क्रान्तो वसन्तः । )

कौमुदी– (किञ्चिदुस्वप्नायमाना ) हा वसन्त, कौमुदीप्रणयैकनिघे , करुणमालम्ब्य परित्रायस्व परित्रायस्व माुमेतस्माद्दष्टसर्पात् । अयमद्य वक्षस्यारुह्य दंष्टुमिच्छति । (इति सभयं विलप्य पक्ष्माण्युद्घाट्य ।) किमयं स्वप्नः । किं परिह।सो वा । (विचिन्त्य ) नाथ, वसन्त, ( इत्याक्रन्दन्ती कम्पं नाटयित्वा ) वल्लभः कुत्र गत : । अये, क्व गतस्ते मय्यसाधारणः प्रणयः । कुत्र वा गतोऽसि विहाय मां त्वदेकशरणम् । नायं कालः परिहासस्य । ( भयमभिनीय )