प्रदोषः-- दीयतां ( हस्तं प्रसार्य गृह्मन् । )
कान्तारोत्तरभागे सरसिजनिचितं सरोवरं रम्यम् । |
तस्मिन्मन्दानिलविचलितविटपशिखरैर्वितायमानविस्तारैरभ्रंकषैस्तरुनि करैराच्छ।द्यमाने सरोरोधसे नर्तनहास्यप्रशसालापैरात्मानं विनोदयन्ती निद्राति स्वावासे किसलयोपरचितपर्यङ्किक|यां निम्बवती । अतोऽद्यैव गत्व तस्याः स्वप्नमीलितलोचनयोस्तत्कुसुमरसं निषिच्य यस्मिन् कस्मिंश्चिज्जीवेऽमन्दानुरागमुत्पादयामि । त्वमपि किञ्चिदेतत् गृहीत्व भ्रमास्मिन् गहने । काचिदवन्तीनगरयुवतिः प्रणयविहीनं काञ्चद्युवानमनुनीय धावति । तावन्विष्य तस्य तरुणस्य पक्ष्माणि रसेनानेन सेचयित्वा तथा कुरुष्व यथाऽस्य निद्राविरामेसैव शोच्यां कन्यका पुरतस्तिष्ठेत् । एवं जागरुकेण यूनस्तस्य तरुण्यामन्यादृशप्रणयं जनयित्वा ताम्रचूडनिनादात्पूर्वमेव द्रष्टव्योऽहं त्वया ।
प्रमोहः-- प्रभो, न काऽप्यत्र विचारणा कार्या । इदं गम्यते ।
(इत्युभौ निष्क्रामतः ।)
(ततः प्रविशति कासारतीरे यथा निर्दिष्टा निम्बवती ।)
'निम्बवत'ी-
नृत्यतां गीयतां सख्यः स्थीयतां मण्डलाकृति । |