पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
द्वितीयोऽङ्कः ।

यत्र त्वद्वदना मलेन्दुरनिशं प्रह्वादनो दृश्यते
तत्रानन्दममन्दरागनिचितं विन्देयमेवाधुना ॥१९॥

मकरन्दः- अयि साहसिके, अधुनैवापहृत्य निगूढं यत्र कुत्रापि निकुजे नेलंय त्वां शरारूणामामिषीकरोमि ।

सौदामिनी--हन्त। नातिहिंस्राणामप्येवं भवति मानसी वृत्तिः । तवासन्निधाने नास्युपायः प्राणितुम् । भवतु यथाशक्त्यनुसरामि त्वाम् ।

मकरन्दः– (सक्रोधम् ।) न दद्यां तेऽवकाशमुक्तिप्रत्युक्तिवैदग्ध्यस्य । अथैव प्रद्रवेयम् । यद्यनुयासि मामवेहि त्वयि किमपि पापमप्याचरेयं क्रोधवशगः ॥ (इति निष्क्रान्तः )

सौदामिनी– अये प्रस्तरप्रतीकाश, किमन्यदप्यस्ति पापाचरणम् । तत्तदैव खलूपक्रान्तं यद। मां मुक्वIऽन्यासक्तचेता धावसि । घिक्त्वामसदृशकारिणम् । अश्रुतचरं किल यत्काचित्तरुण्यननुरागिणं कञ्चित्पुरुषमनुगतेति ।“ कोवा सचेतनः स्त्रियमभिकामयमानां नाभिनन्दति ।' भवतु अहमप्युनुभवामि त्वाम् । त्वदलाभे कथं व मन्दभागिन्या जीवितव्यम् । (इत्यनुधावन्ती मकरन्दं निष्क्रान्ता )

प्रदोषः--( सदयम् ) अयि मुग्धे, अनुयाहि तम् । यावदयं वना दस्मान्न निष्क्रामति तावत् त्वां प्रणयेनानुनेष्यति |

( प्रविशन्तं प्रमोहमवलोक्य स्वगतम् । )

महाजङ्घाल, किमुपानीतं तत् कुसुमम् ।

प्रमोहः - नन्विदमेव । ( इति प्रसूनं दर्शयति ।)