पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
वासान्तिकस्वप्ने

रिताऽपि पुनः पुनरनुसराम्येव । तव सरमापोतपदं मामारोपयतु भवान् । त्वया धिक्कृतापि प्रहृताप्यपसारितप्यनादृतापि कदाचिदपि न विमोक्ष्यामि त्वाम् । अनुसरणमनुमन्यस्वनर्हाया अपि मे । त्वदनुरागाय किमिदं सरमापोतपदमन्तरन्यदपकृष्टमभिलषेयम् । लघिष्ठमप्येतन्मम तु माननीयमेव ।

मकरन्दः-
वर्धयसि कोपमधिकं बाले वाचाऽनया हि मम सद्यः ।
त्वद्दर्शनेन खिन्नः -

सौदामिनी-
त्वद्विरहं नास्मि सोढुमयि कान्त ॥ १६ ॥

मकरन्दः --- ( सरोषकरुणम्)

हित्वा ह्यवन्तिनगरीमतितुङ्गसाला
मागत्य मामनुसरस्यनुरागहीनम् ।
गाढं तमश्च विपिनं तु शरारुभीमं
त्वं कन्यकेदमुचितं न हि ते वचश्च ॥ १७ ॥

सौदामिनी -- (सप्रणयम् ।) त्वद्धर्मशीलतैव मामेवं प्रेरयति ।

निर्मानुषाणि न हि नाथ, वनानि तानि
यन्मे जगन्ति निखिलानि भवन्मयानि ।
एवं समस्तमपि मे निकटे जगत् स्या
देकाकिनीति कथमत्र भवान् ब्रवीति ।। १८ ॥
रात्रिर्में दिवसायते तम इदं ज्योत्स्नायते भीषणं
कान्तारं नगरायते तव वचः पीयूषवर्षायते ।