पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
द्वितीयोऽङ्कः ।

प्रथमं यमेषा पश्यति स व्याघ्रः ऋक्षः सिंह: लुलायो वृषो वानरो गोलांगूलो वा भवतु तमनुरागेणानुसरिष्यतीयं कोपना । अहं तु मूलिकान्तरेणास्य अनुरागोन्मादपनयनापूर्वमेव तं राजबालकं मे दापयामि । (पुरतोऽवलोक्य ) कोऽयमगच्छति ? (अनुधावन्तीं तरुणीं दृष्टा । ) अन्तरितस्तिरस्करिण्या श्रोष्यामि तयः सल्लापम् ।

(ततः प्रविशति मकरन्दस्तमनुष्टावन्ती सौदामिनी च )

मकरन्दः– (सौदामिनीं प्रति ।)

मा माऽनुधाव तन्वङ्गि, प्रणयो नास्ति मे त्वयि ।
कुत्रास्ते कौमुदी रम्या सवसन्ताऽद्य भामिनी ।। १३ ।।
हनिष्यामि च तं मूर्खं साऽधुना हन्त मामहो ।
कान्तारेऽस्मिन् प्रविष्टौ तावित्युक्तं हि त्वया पुरा ।
तस्मादस्मिन्वने भ्रान्त्वा मार्गयन् कौमुदीमहम् ।
अपश्यन् तरुणीं कान्तां पश्याम्युन्मत्तवज्जगत् ॥२५॥
गच्छ गच्छान्यतो भद्रे, सर्वधा माऽनुयाहि माम् ।

सौदामिनी -- अयि कठिनहृदय, त्वयैवाहमाकृष्टा । त्वया विमुक्ता चेत्तादृशी शक्तिरहमपि स्वयमेवापगता भवंयम् ।

मकरन्दः= किमहं त्वां प्रलोभये ? किं वा ददामि ते प्रत्याशावकाशम् । न किं ते भणामि शश्वत् त्वय्यनुरागो नास्ति न जात्वपि च भविष्यतीति विस्पष्टैर्वचनैः ।

सौदामिनी-- तथापि त्वयि मेऽनुरागोऽसाधारणः प्रतिक्षणं वर्धते । अहं ते बालिका सरमा । अत एव त्वया प्रह्रत्यापसा-