पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
वासान्तिकस्वप्ने

प्रदोषः-- चण्डि गच्छ गच्छ, जहाहि मैतद्वचनं यावदहं त्वां दावयामि । सखे प्रमोह, अपि स्मरसि कदाचिदहं कस्मिश्चिदुदधिरोधसि तिष्ठन्नत्तुङ्गशैलशिखरेऽशृणवं किमपि देवार्हं गानमभोभोधिमध्ये । यस्य माधुर्येण शान्तोऽभवद्वीचिवाचाटोऽपि वारिधिः । कतिचन तारकाश्च विहाय खमण्डलं न्यपतन्सलिले ।

प्रमोहः -- आ स्मरामि ।

प्रदोषः-- तदाऽहं अद्राक्षं मदनं धनुर्बाणपाणिं डयमनोऽन्तरा मेदिनीशीतकिरणौ । न तु त्वमशक्ततया । सतु काञ्चित् प्रतीच्यवाटतपस्विनीं स्वशरव्यतां नीत्वा सजवममुच्चच्छरमपघ्नन्निव सहस्रं प्राणिनां मनांसि । परं सा योगिन्यकलुषितहृदया सन्ततध्यानपरायणा नेयाय तद्वशताम् । एवमञ्जसा गच्छन्क्षिपन् स्फुलिङ्गानपि मोघीकृतात्मशक्तिस्तस्य बाण निपपातामोघीभवन्निव कस्मिंश्चित् प्रसूने । तत्तु कुसुमं प्रकृत्या दुग्धधवलमपि मारशरक्षत्या। रक्तमभवत् । समाहूयते चेदं कन्यकाभीरागालसनाम्ना । सद्यः समानय तत्सुमं यत्कदाचिददर्शयं ते । यस्य च रस: पतितश्चेदुपरि निद्रानिमीलितयोर्यस्य पक्ष्मणोस्तं जनं स्त्रियं वा पुरुषं वा स्वप्नसमनन्तरं यो नयनविषयीभवति तस्मिन् जीव एवानुरागाभिनिविष्टहृदयं करोति । आनयैतं प्रसूनमविलम्बेन कालेन यावत क्रोशार्धं गच्छेत्तिमिङ्गिलः ।

प्रमोहः- चत्वारिंशता क्षणानामाखिलावनिं भ्रान्त्वा निवर्तेय ।

(इति निष्क्रान्तः )

प्रदोषः- गृहीत्वाऽस्य रसं निद्रानिमीलितनयनां निम्बवतीमुपलभ्य पातयामि तमुपरि तस्याः पक्ष्मणोः । ततः प्रबुद्धय