पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
द्वितीयोऽङ्कः ।

वचनामृतवर्षेणासिञ्चन्मे कर्णयुगलम् । जातुचित् सगरसलिलनरीनृत्यमाननौकावलीमवलोकयन्त्यन्तर्वर्तिनी स्वयमपि पर्यायो द्गमनावगमनायितगतिचातुर्येण किञ्चिदन्तरं गत्वा परावृत्य तट भूमौ तां विडम्बयन्ती विस्मयविकसितलोचनारविन्दां समनन्दयत् प्रियसखीं माम् । ते हि गतः स्मर्यमाणमधुरा दिवसाः ।

अद्यापि तां युवमनोरथलक्ष्यभूतां
मन्दाकिनीतटतले शयितां श्रमेण ।
मन्दानिलेन च मया बहु वीज्यमानां
गर्भालसां प्रियसखीं सदयं स्मरामि ।। १२ ।।

(अश्रूणि मुञ्चन्ती ।) हन्त ! कुमरमेनमखिललक्षणोपेतं प्रसूय मर्त्यत्वान्मद्दौर्भाग्याच्च प्रसववेदनयाऽमरलोकङ्गतयामस्यामनाथं तं बालकं वीक्ष्य प्रियसखीविनाशोकविनोदनायौरसमिव खलु वर्धयामि । तत्कथं वा पूरयेयं तेऽभीष्टम् ।

प्रदोषः कियन्तं कालमत्र वस्तुमिच्छसि ।

निम्बवती– यावदिन्द्रवर्मणः परिणयोत्सवदिवसः । यदि तेऽभिरुचिरस्माभिर्नर्तितुं तर्हि सङ्गच्छस्व मया । नोचेत् गम्यताम् । वयमप्यपसरामः ।

प्रदोषः-- देहि मे राजकुमारम् । त्वया नृत्येयमधुना ।

निम्बवती– (सरोषम् ।) नैव ते विद्याधरलोकायापि ; किं पुनस्ते । (अन्यतो मुखमाक्षिप्य ।) सख्यस्त्वरितं गम्यतामन्यथा महान् कलह भविष्यति ।

( इति सपरिवारा निष्क्रान्ता । )