पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
वासान्तिकस्वप्ने

मया विवदमानस्य मासास्सप्त गतास्तव ।
तस्माद्वैविध्यमापन्नाः सर्वे वनमृगादयः ।। ६ ॥
वनादस्मद्गतोहर्ष आगता दुःखसन्ततिः ।
शिशिरीकुरुते नैव मेघो वर्षेण ते वनम् ॥ ७ ॥
ऋतवोऽपि यथापूर्वं न सेवन्ते वनस्थलीम् ।
ग्रीष्मायते च हेमन्तो वसन्तः शिशिरायते ।। ८ ।।
सरिच्छीकरशीतश्च राजीवाहृतसौरभः ।
न वाति माधवे कान्त, सुखदो मलयानिलः ॥ ९ ।।
दुर्दशावर्णने नाथ, न शक्ष्यामि पुरस्तव ।
अस्मद्विरोध एवात्र निदानमवधार्यताम् ॥ १० ॥


प्रदोषः- (सप्रणयमिव । ) ।

दुर्दशाया निवृतीच्छा यदि सा त्वद्वशंवदा ।
न निम्बवत्या संरोधः प्रदोषेच्छासु दीयताम् ।। ११ ।।

अहं तु राजकिशोरकमेव त्वत्तो जिहीर्षामि ।

निम्बवती-- ( सरोषशोकम् ।) जोषमास्यताम् । कृत्स्नोऽयं विद्याधरलोकोऽपि नैनं क्रीणीयात् । एकतमा ह्यस्य जननी मदाराधनपरा मे सखीषु । सा किल मया कदाचित्सुखस्पर्शमन्दानिसान्दोलितानेकानोकहरमणीयोपवनप्रान्तेषु कदाचित् प्रवातोद्धूयमानवाचालवीचिमालाकोलाहलाकुलितकालानलोद्भ्रान्तहालहलोत्त्तिकालायमानोदनृत्यद्वणिक्पोतभागीरथीकान्तरम्योपकण्ठस्थतालीवनश्याममेघावृताकाशभागाधिकश्यामलामन्दकान्तारपीतपुलिन प्रदेशेष्वसकृन्मां निर्भरं परिष्वज्यानवरतममन्दमरन्दधारामाधुर्य-