पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
द्वितीयोऽङ्कः ।

किन्नरी-- अहो प्रमादः। अत्रैवागच्छति स्वामिनी । निम्बवत्यपि । (ततः प्रविशतो नेपथ्यमुभयतः प्रदोषो निम्बवती च स्वस्वपरिवारेण )

प्रदोषः- (निम्बवतीं प्रति ।) अस्यां रजन्यां आवयोः इदमन्योन्यदर्शनन्न सुखायते ।

निम्बवती-- किं ! किं ? ईर्ष्याकलुषितहृदय प्रदोषो वा । (अनुचरीर्दृष्ट्वा) गन्तव्यमस्माभिरितः प्रदेशात् । यतोऽहमस्य शय्यां दर्शनं च सशपथं वर्जितवती ।

प्रदोषः-- मा तावत्साहसिके, किन्नाहं ते प्रभवामि ?

निम्बवती— तथाचेदहमपि त प्रधानमहिषी । अपि न जाने यदा यदा भवान् हित्वास्मद्देशं धृत्वा गोपवेषं गत्व बहु दूरं कृत्वा वेणुगानं आचकषं कस्याश्चित् मदनाक्रान्तायाः गोपि काया: मनः । अयि मूढ, किमहं न बोधामि त्वत्प्रत्यागमनकारणं ते गूढनायिकायदेशयाश्शौर्यावलिप्तहृदयाया इन्द्रवर्मणा हठादुपयम्यमानायाः कनकलेखयाः परिणयमहोत्सवदिदृक्षैवेति ।

प्रदोषः -- निम्बवति, कनकलेखाया मम च कमपि प्रणयमामन्त्रयन्तीं न बाधते त्वां लज्जा मयि जानत्येव ते अनुरागं इन्द्रवर्मणि । अपि न जानीषे यत्सर्वलोकविदितं त्वयैव कारणभूतया त्वदनुरागभाजनेन इन्द्रवर्मणा बह्वयस्तमेव शरणं मन्वानाः । कन्यकाः प्रायो विप्रलब्धा इति ।

निम्बवती--

ईर्ष्या ते हृदयगता मिथ्या वस्तूनि किमपि शुम्भयति ।
तस्मात्ते प्रतिवचनं दातुं दीनऽहमद्य नालं हि ॥ ५ ॥

V. 4