पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
वासान्तिकस्वप्ने

दिने वा शर्वर्यामविकलशरच्चन्द्रमसि वा
मिथो देवो देवी विकलमनसौ वीक्षितुमपि ।। ३ ।।

किन्नरी-- (प्रमेहं सम्यङ्निर्वर्ण्य ) यद्यविस्मरणशीलाहं जानामि त्वां तमेव तीक्ष्णमतिं दुष्टप्रमोहम् । यस्त्वमायासयिता सर्वप्रा णिनम् ! तथाहि। भाययसि कदाचित् मुग्धा: ग्रामवनिताः । क्षारयसि क्षीरं दोहकाले, भ्रामयसि यन्त्राणि, पातयसि तोरणानि, क्षालयसि महार्हाणि वस्त्राणि,भुक्त्वा नवनीतं मन्थयसि । दधि वृधा, कृत्वा बृंहितं व्यामोहयसि गजान् । छित्वा बन्धनं विद्रावयसि वाजिनः । चोरयित्वोष्णीषाण्याक्रन्दयसि राजसेव कान् । कृत्वा स्तनितमुत्साहयसि शिखिनः। मोहयित्वा पान्थानन्यत्र गमयसि, तानपहससि च । ये त्वां “मनोहर, दयालो, प्रमोह, प्रभो, इत्याह्वयन्ति तेषां साधयसि कार्याणि लीलया । सम्पादयसि च तत्समीहितम् । भाग्यवन्तः खलु ते ये त्वामाराधयन्ति । एवं किल नीयते कालः त्वया। । न किं त्वमेतादृशः ।

प्रमोहः-- (हर्षम् ।) साधु साधु, अहमेव तादृशः परिहासलीलारुचिर्निशाभ्रमणकौतुकी ।

तैस्तैर्नेमवचोभिरद्य कुतुकं राज्ञःसमुत्पादयन्
भ्रान्त्वा रम्यमहावनेषु सततं हास्येषु कालं नयन् ।
विज्ञानम्बुधिमज्जनेन विवुधंमन्यैरपि श्लाघितः
सोऽहं सेन्द्रमरुद्गणानपि महमायावशान् कारये ।। ४ ।।

(पार्श्वतोऽवलोक्य ) अपसराषसर । इत एवागच्छति राजा भदष पपरवारः ।