पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
द्वितीयोऽङ्कः ।


(ततः प्रविशतो नेपथ्योभयपार्श्वाभ्यां प्रमोहः किन्नरी च ।)

प्रमोहः--- भद्रमुखि, कुत्र गम्यते ?

किन्नरी --- साम्प्रतमहस्--

क्वचिच्छैलाग्रेषु क्वचिदपि च नीरन्ध्रतमसि
क्वचिद्रम्यारण्ये दवदहनदग्धेषु तरुषु ।
क्वचिच्छैलद्रोण्यां बहुपुलिनहृधे च सरसि
ह्यतिक्रान्ता वेगाच्छशिनमपि सर्वत्र गमने ॥ १ ।।

विद्याधरवरमहिषीसेवानिरताऽहमार्य मन्तव्या ।
तत्परितेषायाशु प्रजवं गच्छामि तत्पार्श्वम् ।। २ ।।

रे र किन्नर, कुशलमस्तु ते। सम्प्रत्यागमिष्यत्यचिरेणैवास्मत्स्वामिन्यत्र सह परिवारेण ।

प्रमोहः-- अयि, किञ्चिच्छुद्धस्व मे वचनम् । निर्णीतवानस्मद्राजा प्रदोषोऽत्रैवास्यामेव रजन्यमागत्य परिवरेण नर्तितव्यमिति । तत्कुरुष्व यथाऽस्मदवनिपस्य दृष्टिपथं नावतरेत् स्वामिनी । यतस्तस्यामतीव वद्धवैरो देवः ! स त्वेष्वेव विवसेषु कञ्चित्सुन्दरं राजकुमारमानीय वर्धयति । तं खल्ववनिपः स्वसेनापतिं चिकीर्षति । देवी तु न कदापि बालकं दास्यामीति साभिनिवेशं भणति । ततः प्रभृति कोपविष्टस्तस्यां राजा । त तु राजकिशोरकमतीवादरेण पोषयति देवी । जातीचम्पककुसुमैरलङ्करोतिं शश्वत् । स एवास्या। हर्षभूमिः । तस्मादद्य ।

वने वा शैले व तरुगहनकुञ्जेषु पुलिने
गृहारामे रम्ये नभसि विपुले वा सरसि वा ।