पृष्ठम्:वासन्तिकास्वप्नम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
वासान्तिकस्वप्ने

अहो । प्रमादः ! सत्यमेव वय चित्रवधमनुभविष्यामः ।

अधरकः = चित्तवधभीई जइ मिउ मिउ गच्चन्हि ! कोइळोव्व ऴुवीमि ।
चित्रवधभीतिर्यदि मृदु मृदु गर्जामि । कोकिळ इव रौमि ।

धान्यकः — अम्हइन्दादु उदे ण अण्णा भूमिआ तुह जुज्जइ जदो शे अम्हइन्दे ळमणिज्जवअणे ऴुव्वजोव्वण संवण्णे विळाशी अ । अदो तुमं अम्हइन्दणेप्पच्छं वेअ धाळइश्शशि । अश्मकेंद्रादृते नान्या भूमिका तव युज्यते । यत: सोऽश्मकेंद्रो रमणीयवदनो रूपयौवनसंपन्नो विलासी च । अतस्त्वमश्मकेंद्रनैपथ्यमेव धारयिष्यसि ।

अधरक – तह अथ्थु ।
तथाऽस्तु ।

धान्यकः-- वळे नडा, शव्वे वि तुभ्भे णअळादु बही आआ मिणीए जोण्हाघवळिदं अळण्णाणिं अवणिवाह प्पविठ्ठेण मए शंगच्छध । तत्थ णिश्शंवाहवेळाए विअळिदविघ्घशंका शंम णडित्तूण पओअणिउणा हुविश्शम्ह ।

भो नटाः, सर्वेपि यूयं नगराद्वहिरागामिन्यां शर्वर्यो ज्योत्स्नाधवलितभरण्यानीमवनिपस्य प्रविष्टेन मया संगच्छध्वम् । तत्र निःसबाधवेलायां विगलितविघ्नशङ्काः सम्यङ्नटित्वा प्रयोगनिपुणा भवेम ।

सर्वे तह ।

तथा । (इति निष्क्रान्ताः ।)

इतेि प्रवेशकः ।।