पृष्ठम्:भामती.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ २७ ] ध्यासनेत्यत आह। “न चानध्यस्तात्मभावेन देहेन कश्चिद्याप्रियते"। सुषुप्तेपि व्यापारप्रसङ्गादिति भावः । स्यादेतत् । यथा ऽनध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन् पटस्य कर्तैवमनध्यस्तात्मभावं देहेन्द्रियादि व्यापारयन् भविष्यति तदभिज्ञः प्रमातेत्यत आह । “न चैतस्मिन् सर्वस्मिन्” इतरेतराध्यासे इतरेतरधर्माध्यासे चासति आत्मनो ऽसङ्गस्य सर्वथा सर्वदा सर्वधर्मधर्मिवियुक्तस्य प्रमातृत्वमुपपद्यते । व्यापारवन्तो हि कुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति । अनध्यस्तात्मभावस्य तु देहादिप्वात्मनो न व्यापारयोगो ऽसङ्गत्वादित्यर्थः । अतसाध्यासाश्रयाणि प्रमाणानीत्याह। “न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति" । प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति । अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कतृस्थश्चित्स्वभावः प्रमा कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत् । यदि चिदात्मा तत्र नाध्यस्येत । कथं चैष चिदात्मकर्तृको भवेत्। यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत्। तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति । तत्सिद्वौ च प्रमातृत्वं, तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः। प्रमातृत्वेन च प्रमोपलक्ष्यते। प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तत। तथा च प्रमाणमप्रमाणं स्यादित्यर्थः। उपसंहरति । “तस्मादविद्याववद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि"। स्यादेतत् । भवतु पृथग्जनानामेवम्। आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्तइति कथमविद्यावदिषयाण्येव प्रमाणानीत्यत आए। “पश्चादिभिश्चाविशेषा"दिति । विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगामानं, प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते। ग्राहयो हि प-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४&oldid=334491" इत्यस्माद् प्रतिप्राप्तम्