पृष्ठम्:भामती.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ २५ ] तन्निरोधोपायमाह । “तदिवेकेन च वस्तुस्वरूपावधारणं" निर्विचिकित्मं ज्ञानं “विद्यामाडः" पण्डिताः । प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यो बुद्ध्यादिभेदाग्रहनिमित्तो बुद्याद्यात्मत्वतद्धर्माध्यासः । तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते ऽध्यासापबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठतइत्यर्थः स्यादेतत्। अतिनिरूढनिबिडवासनानुविद्धा ऽविद्या विद्यया ऽपबाधिता ऽपि स्ववासनावशात्पुनरुद्भविष्यति, प्रवर्तयिष्यति च वासनादि कार्यं स्वोचितमित्यत आह । “तत्रैवं सति" एवंभूतवस्तुतत्त्वावधारणे सति “यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वा ऽणुमात्रेणापि स न संबध्यते" ऽन्तःकरणदिदोषेणाशनायादिना चिदात्मा चिदात्मनो गुणेन चैतन्यानन्दादिना ऽन्तःकरणादि न संबध्यते । एतदुक्तं भवति। तत्त्वावधारणभ्यासस्य हि स्वभाव एव स तादृशो यदनादिमपि निरूढनिविडवासनमपि मिथ्याप्रत्ययमपनयति । तत्त्वपक्षपातो हि स्वभावो धियाम् । यथा ऽऽहुबाह्या अपि । 'निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधो यत्नवत्त्वे ऽपि बुद्देस्तत्पक्षपातत' इति । विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतो ऽनिर्वाचया ऽविद्यया बाध इति । यदुक्तं, 'सत्यानृते मिथुनीकृत्य विवेकागहादध्यस्यामिदं ममेदमिति लोकव्यवहार' इति, तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्त, इतिशब्दसूचितं लोकव्यवहारमादर्शयति । “तमेतमविद्याख्य” मिति । निगदव्याख्यातम्॥ आक्षिपति । “कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि" तत्त्वपरिच्छेदो हि प्रमा विद्या, तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि । नाविद्यावन्तं प्रमाणान्याश्रय-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२&oldid=334432" इत्यस्माद् प्रतिप्राप्तम्