________________
[ १५ ] कथमालम्बनं भासमानताभ्युपगमे वा कथं नानुभवविरोधः । अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसंभवः । दोषसहितानां तेषां मिथ्याप्रत्यये ऽपि सामर्थ्यमिति चेत्, न । दोषाणां कार्योपजननसामर्थ्य विधातमाचे हेतुत्वात्। अन्यथा दुष्टादपि कुटजबीजाद वटाङ्कुरोत्पत्तिप्रसङ्गात्। अपि च खगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात् सर्वं ज्ञानं समीचीनमाख्येयम् । तथा च रजतमिदमिति च द्वे विज्ञाने स्मृत्यनुभवरूपे तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणं दोषवशात् तद्गतशक्तित्वसामान्यविशेषस्याग्रहात् तन्मात्रं च गृहीतं सदृशतया संस्कारोबोधक्रमेण रजते स्मृतिं जनयति । सा च गृहोतगहणस्वभावापि दोषवशाहीतत्वांशप्रमोषाद् गृहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः पुरोवर्तिद्रव्यमात्रगहणस्य च मिथः स्वरूपतो विषयताच भेदागृहात् सन्निहितरजतगोचरज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः, क चित्पुनर्ग्रहणएव मिथो गृहीतभेदे, यथा पीतः शङ्ख इति । अत्र हि विनिर्गच्छन्नपनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव खच्छस्य पीतत्वं गृह्यपे पित्तं तु नगृह्यते, शङ्खोपि दोषवशात् शुक्लगुणरहितः स्वरूपमात्रेण गृह्यते । तदनयोर्गणगुणिनारसंसर्गाग्रहसारूप्यात गीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः समानाधिकर व्यपदेशश्च, भेदागहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राकनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति । तद्यथार्थाः सर्वे विप्रतिपन्नाः संदेहविभूमाः, प्रत्ययत्वात् ,