पृष्ठम्:भामती.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ १६ ] घटादिप्रत्ययवत् । तदिदमुक्तं यत्र यदध्यास इति । यस्मिन् शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किंतु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीतताशप्रमोषेण गृहीतमात्रस्य य इदमिति पुरोवस्थिताद्रव्यमात्रात्तत्प्रज्ञानाच्च विवेकस्तदग्रहणनिबन्धनो भ्रमः। भ्रान्तत्वं च ग्रहणमरणयोरितरेतरसामानाधिकरण्यव्यपदेशोरजतादिव्यवहारश्चेति । अन्ये त्वत्राप्यपरितुष्यन्तो यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते। अत्रेदमाकूतम्। अस्ति तावद्रजतार्थिनो रजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तदेतत्र तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति । ग्रहणनिबन्धना हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् । ननूक्तं नाग्रहणमात्रात्किं तु ग्रहणस्मरणे एव मिथः सर्वरूपतो विषयतश्चागृहीतभेदे समीचीनपुरस्थितरजतविज्ञानसादृश्येन अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । अथ समीचीनचानसारूप्यमनयोर्गृहमाणं वा व्यवहारप्रवृत्तिहेतुरगृह्यमाणं वा सत्तामात्रेण गृह्यमाणे ऽपि समीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोरिति ग्रहणमथ वा तयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रह इति ग्रहणम् । तत्र न तावत्समोचीनज्ञानसदृशी इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् । नहि गोसदृशो गवय इति ज्ञानं गवार्थिनं गवये प्रवर्तयति । अनयोरेव भेदाग्रह इति तु ज्ञानं पराहतं, नहि भेदाग्रहे ऽनयोरिति भवति, अनयोरिति ग्रह भेदाग्रहणमिति च भवति । तस्मात्मसत्तामात्रेण भेदाग्रहो ऽगृहीत एवं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३&oldid=334409" इत्यस्माद् प्रतिप्राप्तम्