________________
[ १० ]स्थापयति, तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणं मयापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तं, तत्र पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतयाऽनिर्वाच्यमित्यनृतम्। आरोपविषयं सत्यमाह। परत्रेति। परत्र शुक्तिकादी परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम्। स्यादेतत्। परत्र पूर्वदृष्टावभास इत्यलक्षणमतिव्यापकत्वात् । अस्ति हि स्वस्तिमत्या गवि पूर्वदृष्टस्य गोत्वस्य परत्र कालाच्यामवभामः । अस्ति च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहित्यामवभासः समीचीनः । अवभासपदं च समीचीने ऽपि प्रत्यये प्रसिद्धं यथा नीलस्यावभासः पीतस्यावभास इत्यत आह। स्मृतिरूप इति । स्मृते रूपमिव रूपमस्येति स्मृतिरूपः। असन्निहितविषयत्वं च स्मृतिरूपत्वं सन्निहितविषयं च प्रत्यभिज्ञानं समोचोनमिति नातिव्याप्तिः। नाप्यव्याप्तिः स्वप्रज्ञानस्यापि स्मृतिविभ्रमरूपस्यैवंरूपत्वात्तत्रापिहि स्मर्यमाणे पित्रादौ निद्रोप्ललववशादसन्निधानपरामर्शे तत्रतत्र पूर्वदृष्टस्यैव सन्निहितदेशकालत्वस्य समारोपः। एवं पीतः शङ्कस्तितो गुड इत्यत्राप्येतल्लक्षणं योजनीयम्। . तथाहि । बहिर्विनिर्गच्छदत्यच्छनयनरश्मिसंपृक्तपित्तद्रव्यवर्तिनों पोतता पित्तरहितामनुभवन् शङ्खंच दोषाच्छादितशुक्तिमानमनुभवन् पीततायाश्च शङ्खासंबन्धमननुभवनसंबन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डं पीतं बिल्वफलमित्यादौी पूर्वदृष्टं सामानाधिकरण्यपीातत्वशङ्खत्वयोरारोप्याह पीतः शङ्ख इति । एतेन तिक्तो गुड इति प्रत्ययो व्याख्यातः। एवं विज्ञातृपुरुषाभिमुखेष्वादर्मोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा मौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राह्यदोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राह्य-