पृष्ठम्:भामती.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ १९ ] त्पूर्वदृष्टाभिमुखादर्भोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमोपि लक्षितो भवति। एतेन विचन्द्रदिङ् मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेय्वपि यथासंभवं लक्षणं योजनीयम् । एतदुक्तं भवति । न प्रकाशमानतामात्रं सत्वं येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् । नहि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा । तथा सति मरुषु मरीचिचयमुच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णमवतीर्णा मन्दाकिनीत्यभिसंधाय प्रवृत्तः स्यात् तोयमापीय पिपासामुपशमयेत् । तस्मादकामेनापि आरोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्यपगमनीयम् । न च मरीचिरूपेण सलिलमवस्तुसत् स्वरूपेण तु परमार्थसदेव देहेन्द्रियादयस्तु स्वरूपेणापि असन्त इत्यनुभवागोचरत्वात्कथमारोप्यत इति सांप्रतम् । यतो यद्यमन्तो नानुभवगोचराः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वं, न च स्वरूपसत्त्वेन तोयात्मनापि सन्तो भवन्ति । यद्यच्येत नाभावो नाम भावादन्यः कश्चिदस्ति अपि तु भाव एव भावान्तरात्मनाऽभावः स्वरूपेण तु भावः। यथाहः। भावान्तरमभावो हि कया चित्त व्यपेशयेति। ततश्च भावात्मनोपाख्येयतयास्य युज्येतानुभव-. गोचरता, प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यख निस्तत्त्वस्य कुतोनुभवविषयभावः कुतो वा चिदात्मन्यारोपः। न च विषयस्य समस्तसामर्थ्यस्य विरहेपि ज्ञानमेव तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं तस्मादसत्प्रकाशनशक्तिरेवाविद्येति सांप्रतम् । यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यमस

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८&oldid=334370" इत्यस्माद् प्रतिप्राप्तम्