अग्निपुराणम्/अध्यायः १३५

विकिस्रोतः तः
अग्निपुराणम्
















सङ्ग्रामविजयविद्या

ईश्वर उवाच
सङ्ग्रामविजयां विद्यां पदमालां वदाम्यहं ।१३५.००१
ओं ह्रीं चामुण्डे श्मशानवासिनि खट्वाङ्गकपालहस्ते(१)
टिप्पणी
१ खड्गकपालहस्ते इति झ..

महप्रेतसमारूढे महाविमानसमाकुले कालरात्रि महागणपरिवृते महामुखे बहुभुजे घण्टाडमरुकिङ्कणीअट्टाट्टहासे किलि किलि ओं हूं फट्दंष्ट्राघोरान्धकारिणि नादशब्दबहुले गजचर्मप्रावृतशरीरे मांसदिग्धे लेलिहानोग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भौमाट्टाट्टहासे स्फुरद्विद्युत्प्रभे चल चल ओं चकोरनेत्रे चिलि चिलि ओं ललज्जिह्वे ओं भीं भ्रुकुटीमुखि हुङ्कारभयत्रासनिकपालमालावेष्टितजटामुकुटशशाङ्कधारिणि अट्टाट्टहासे किलि किलि ओं ह्रूं दंष्ट्राघोरान्धकारिणि सर्वविघ्नविनाशिनि इदं कर्म साधय २ ओं शीघ्रं कुरु २ ओं फटों अङ्कुशेन शमय प्रवेशय ओं रङ्ग रङ्ग कम्पय २ ओं चालय ओं रुधिरमांसमद्यप्रिये हन २ ओं कुट्ट २ ओं छिन्द ओं मारय ओं अनुक्रमय ओं वज्रशरीरम्पातय(१) ओं त्रैलोक्यगतन्दुष्टमदुष्टं वा गृहीतमगृहीतं वा आवेशय ओं नृत्य ओं वन्द ओं कोटराक्षि ऊर्ध्वकेशि उलूकवदने करङ्किणि ओं करङ्कमालाधारिणि दह ओं पच २ ओं गृह्ण ओं मण्डलमध्ये प्रवेशय ओं किं विलम्बसि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन ऋषिसत्येन आवेशय ओं किलि किलि ओं खिलि खिलि विलि विलि ओं विकृतरूपधारिणि कृष्णभुजङ्गवेष्टितशरीरे सर्वग्रहावेशनि प्रलम्बौष्ठिनि भ्रूभङ्गलग्ननासिके विकटमुखि कपिलजटे ब्राह्मिभञ्ज(२) ओं ज्वलामुखि(३)
टिप्पणी
१ रुद्रशरीरं पानयेति ख.. । रुद्रशरीरं घातयेति घ.. , ञ.. च
२ कपिलजटाधारिणि भञ्ज भञ्जेति झ..
३ ज्वलज्ज्वालमुखि इति ग.. , घ.. , ङ.. , ञ.. च

खन ओं पातय ओं रक्ताक्षि घूर्णय भूमिं पातय ओं शिरो गृह्ण चक्षुर्मीलय ओं हस्तपादौ गृह्ण मुद्रां स्फोटय ओं फटों विदारय ओं त्रिशूलेन च्छेदय ओं वज्रेण हन ओं दण्डेन ताडय २ ओं चक्रेण च्छेदय २ ओं शक्त्या भेदय दंष्ट्र्या कीलय ओं कर्णिकया पाटय ओं अङ्कुशेन गृह्ण ओं शिरोक्षिज्वरमैकाहिकं द्व्याहिकं त्र्याहिकञ्चातुर्थिकं डाकिनीस्कन्दग्रहान्मुञ्च मुञ्च ओं पच ओं उत्सादय ओं भूमिं पातय ओं गृह्ण ओं ब्रह्माणि एहि ओं माहेश्वरि एहि ओं कौमारि एहि ओं वैष्णवि एहि ओं वाराहि एहि ओं ऐन्द्रि एहि ओं चामुण्डे एहि ओं रेवति एहि ओं आकाशरेवति एहि ओं हिमवच्चारिणि एहि ओं रुरुमर्दिनि असुरक्षयङ्ककरि आकाशगामिनि पाशेन बन्ध बन्ध अङ्कुशेन कट २ समयं तिष्ठ ओं मण्डलं प्रवेशय ओं गृह्ण मुखम्बन्ध ओं चक्षुर्बन्ध हस्तपादौ च बन्ध दुष्टग्रहान् सर्वान् बन्ध ओं दिशो बन्ध ओं विदिशो बन्ध अधस्ताद्बन्ध ओंसर्वं बन्ध ओं भस्मना पानीयेन वा मृत्तिकया सर्षपैर्वा सर्वानावेशय ओं पातय ओं चामुण्डे किलि किलि ओं विच्चे हुं फट्स्वाहा
पदमाला जयाख्येयं सर्वकर्मप्रसाधिका ॥१३५.००१
सर्वदा होमजप्याद्यैः पाठाद्यैश्च रणे जयः ।१३५.००२
अष्टाविंशभुजा ध्येया असिखेटकवत्करौ(१) ॥१३५.००२
गदादण्दयुतौ(२) चान्यौ शरचापधरौ परौ ।१३५.००३
टिप्पणी
१ असिखेटलसत्कराविति ख.. । असिखेटकधृक्करौ इति ञ..
२ गदामुण्डयुतौ इति ज..

मुष्टिमुद्गरयुक्तौ च(१) शङ्कखड्गयुतौ परौ ॥१३५.००३
ध्वजवज्रधरौ चान्यौ सचक्रपरशू परौ ।१३५.००४
डमरुदर्पणाढ्यौ च शक्तिकुन्तधरौ परौ ॥१३५.००४
हलेन मुषलेनाढ्यौ पाशतोमरसंयुतौ ।१३५.००५
ढक्कापणसंयुक्तौ अभयमुष्टिकान्वितौ(२) ॥१३५.००५
तर्जयन्ती च महिषं घातनी होमतोऽरिजित् ।१३५.००६
त्रिमध्वाक्ततिलैर्होमो न देया यस्य कस्य चित् ॥१३५.००६

इत्याग्नेये महापुराणे युद्धार्णवे सङ्ग्रामविजयविद्या नाम पञ्चत्रिंशदधिकशततमोऽध्यायः ॥