सामग्री पर जाएँ

अग्निपुराणम्/अध्यायः १३३

विकिस्रोतः तः
अग्निपुराणम्
















नानाबलानि

ईश्वर उवाच
गर्भजातस्य वक्ष्यामि क्षेत्राधिपस्वरूपकं ।१३३.००१
नातिदीर्घः कृशः स्थूलः समाङ्गो गौरपैतिकः ॥१३३.००१
रक्ताक्षो गुणवान् शूरो गृहे सूर्यस्य जायते ।१३३.००२
सौभाग्यो मृदुसारश्च जातश्चन्द्रगृहोदये ॥१३३.००२
वाताधिकोऽतिलुब्धादिर्जातो भूमिभुवो गृहे ।१३३.००३
बुद्धिमान् सुभगो मानी जातः सौम्यगृहोदये ॥१३३.००३
वृहत्क्रोधश्च शुभगो जातो गुरुगृहे नरः ।१३३.००४
त्यागो भोगो च सुभगो जातो भृगुगृहोदये ॥१३३.००४
बुद्धिमाञ्छुभगो मानी जातश्चार्किगृहे नरः ।१३३.००५
सौम्यलग्ने तु सौम्यः स्यात्क्रूरः स्यात्क्रूरलग्नके ॥१३३.००५
दशाफलङ्गौरि वक्ष्ये नामराशौ तु संस्थितं ।१३३.००६
गजाश्वधनधान्यानि राज्यश्रीर्विपुला भवेत् ॥१३३.००६
पुनर्धनागमश्चापि दशायां भास्करस्य तु ।१३३.००७
दिव्यस्त्रीदा चन्द्रदशा भूमिलाभः सुखं कुजे ॥१३३.००७
भूमिर्धान्यं धनं बौधे गजाश्वादिधनं गुरौ ।१३३.००८
खाद्यपानधनं द्शुक्रे शनौ व्याध्यादिसंयुतः ॥१३३.००८
स्नानसेवादिनाध्वानं वाणिज्यं राहुर्दर्शने ।१३३.००९
वामनाडीप्रवाहे स्यान्नाम चेद्विषमाक्षरं ॥१३३.००९
तदा जयति सङ्ग्रामे शनिभौमससैंहिकाः ।१३३.०१०
दक्षनाडीप्रवाहेर्के वाणिज्ये चैव निष्फला ॥१३३.०१०
सङ्ग्रामे जयमाप्नोति समनामा नरो ध्रुवं ।१३३.०११
अधश्चारे जयं विद्यादूर्ध्वचारे रणे मृतिं ॥१३३.०११
ओं हूं ओं ह्रूं ओं स्फें अस्त्रं मोटय(१) ओं चूर्णय २ ओं सर्वशत्रुं मर्दय २ ओं ह्रूं ओं ह्रः फट्
टिप्पणी
१ मोचयेति ख.. , छ.. च

सप्तवारन्न्यसेन्मन्त्रं ध्यात्वात्मानन्तु भैरवं ।१३३.०१२
चतुर्भुजन्दशभुजं विंशद्बाह्वात्मकं शुभं ॥१३३.०१२
शूलखट्वाङ्गहस्तन्तु खड्गकट्टारिकोद्यतं ।१३३.०१३
भक्षणं परसैन्यानामात्मसैन्यपराङ्मुखं ॥१३३.०१३
सम्मुखं शत्रसैन्यस्य शतमष्टोत्तरं जपेत् ।१३३.०१४
जपाड्डमरुकाच्छब्दाच्छस्त्रं त्यक्त्वा पलायते ॥१३३.०१४
परसैन्यं शृणु भङ्गं प्रयोगेन पुनर्वदे ।१३३.०१५
श्मशानाङ्गारमादाय विष्टाञ्चोलूककाकयोः ॥१३३.०१५
कर्पटे प्रतिमां लिख्य साध्यस्तैवाक्षरं यथा ।१३३.०१६
नामाथ नवधा लिख्य रिपोश्चैव यथाक्रमं ॥१३३.०१६
मूर्ध्नि वक्त्रे ललाटे च हृदये गुह्यपादयोः ।१३३.०१७
पृष्ठे तु बाहुमध्ये तु(१) नाम वै नवधा लिखेत् ॥१३३.०१७
मोटयेद्युद्धकाले तु(२) उच्चरित्वा तु विद्यय ।१३३.०१८
तार्क्ष्यचक्रं प्रवक्ष्यामि जयार्थं त्रिमुखाक्षरं(३) ॥१३३.०१८
क्षिप ओं स्वाहा तार्क्षात्मा शत्रुरोगविषादिनुत् ।१३३.०१९
दुष्टभूतग्रहार्तस्य व्याधितस्यातुरस्य च ॥१३३.०१९
करोति यादृशङ्कर्म तादृशं सिद्ध्यते खगात् ।१३३.०२०
स्थावरं जङ्गमञ्चैव लूताश्च कृत्रिमं विषं ॥१३३.०२०
तत्सर्वं नाशमायाति(४) साधकस्यावलोकनात् ।१३३.०२१
टिप्पणी
१ बाहुमूले तु इति ग..
२ मोचयेद्युद्धकाले तु इति ज.. , झ.. च
३ जयार्थं भूमुखाक्षरमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
४ नाशमाप्नोतीति ज..

पुनर्ध्यायेन्महातार्क्ष्यं द्विपक्षं मानुषाकृतिं ॥१३३.०२१
द्विभुजं वक्रचञ्चुं च(१) गजकूर्मधरं प्रभुं ।१३३.०२२
असङ्ख्योरगपादस्थमागच्छन्तं खमध्यतः ॥१३३.०२२
ग्रसन्तञ्चैव खादन्तं तुदन्तं चाहवे रिपून् ।१३३.०२३
चञ्च्वाहताश्च द्रष्टव्याः केचित्पादैश्च चूर्णिताः ॥१३३.०२३
पक्षपातैश्चूर्णिताश्च केचिन्नष्टा दिशो दश ।१३३.०२४
तार्क्ष्यध्यानान्वितो यश्च त्रिलोक्ये ह्यजयो भवेत्(२) ॥१३३.०२४
पिच्छिकान्तु प्रवक्ष्यामि मन्त्रसाधनजां क्रियां ।१३३.०२५
ओं ह्रूं पक्षिन् क्षिप ओं हूं सः महाबलपराक्रम सर्वसैन्यं भक्षय २ ओं मर्दय २ ओं चूर्णय २ ओं विद्रावय २ ओं हूं खः ओं भैरवो ज्ञापयति स्वाहा
अमुञ्चन्द्रग्रहणे तु जपङ्कृत्वा तु पिच्छिकां ॥१३३.०२५
मन्त्रयेद्भ्रामयेत्सैन्यं सम्मुखं गजसिंहयोः ।१३३.०२६
ध्यानाद्रवान्मर्दयेच्च सिंहारूढो मृगाविकान् ॥१३३.०२६
शब्दाद्भङ्गं प्रवक्ष्यामि दूरं मन्त्रेण(३) बोधयेत् ।१३३.०२७
मातॄणां चरुकं दद्यात्कालरात्र्या विशेषतः ॥१३३.०२७
श्मशानभस्मसंयुक्तं मालती चामरी तथा(४) ।१३३.०२८
कार्पासमूलमात्रन्तु तेन दूरन्तु बोधयेत् ॥१३३.०२८
ओं अहे हे महेन्द्रि अहे महेन्द्रि भञ्ज हि ओं जहि मसानंहि खाहि खाहि किलि किलि किलि ओं हुं फट्
टिप्पणी
१ वज्रचञ्चुं चेति ग.. , घ.. , ङ.. , ञ.. च
२ अभयो भवेदिति ग.. , घ.. , ङ.. च
३ हरमन्त्रेणेति क.. । मूलमन्त्रेणेति ख.. , घ.. , ज.. , ञ.. च
४ मालती वानरी तथेति छ.. , ञ.. च

अरेर्नाशं दूरशब्दाज्जप्तया भङ्गविद्यया ।१३३.०२९
अपराजिता च धुस्तूरस्ताभ्यान्तु तिलकेन हि ॥१३३.०२९
ओं किलि किलि विकिलि इच्छाकिलि भूतहनि शङ्खिनि उभे दण्दहस्ते रौद्रि माहेश्वरि उल्कामुखि ज्वालामुखि शङ्कुकर्णे शुष्कजङ्घे अलम्बुषे हर ओं सर्वदुष्टान् खन ओं यन्मन्निरीक्षयेद्देवि तांस्तान्मोहय ओं रुद्रस्य हृदये स्थिता रौद्रि सौम्येन भावेन आत्मरक्षान्ततः कुरु स्वाहा
वाह्यतो मातॄः संलिख्य सकलाकृतिवेष्टिताः ।१३३.०३०
नागपत्रे(१) लिखेद्विद्यां सर्वकामार्थसाधनीं ॥१३३.०३०
हस्ताद्यैर्धारिता पूर्वं ब्रह्मरुद्रेन्द्रविष्णुभिः ।१३३.०३१
गुरुसङ्ग्रामकाले तु विद्यया रक्षिताः सुराः ॥१३३.०३१
रक्षया नारसिंह्या च भैरव्या शक्तिरूपया ।१३३.०३२
सर्वे त्रैलोक्यमोहिन्या गौर्या देवासुरे रणे ॥१३३.०३२
वीजसम्पुटितं नाम कर्णिकायां दलेषु च ।१३३.०३३
पूजाक्रमेण चाङ्गानि रक्षायन्त्रं(२) स्मृतं शुभे ॥१३३.०३३
मृत्युञ्जयं प्रवक्ष्यामि नामसंस्कारमध्यग ।१३३.०३४
कलाभिवेष्टितं पश्चात्सकारेण निबोधितं ॥१३३.०३४
जकारं विन्दुसंयुक्तं ओङ्कारेण समन्वितं ।१३३.०३५
धकारोदरमध्यस्थं वकारेण निबोधितं(३) ॥१३३.०३५
टिप्पणी
१ नागयन्त्रे इति घ.. , ञ.. च
२ रक्षामन्त्रमिति ख.. , ग.. , ङ.. , ज.. च
३ ककारोदरमध्यस्थं चकारेणेति ख.. । चकारोदरमध्यस्थं चकारेणेति ग.. , झ.. च । वकारोदरमध्यस्थं ठकारेणेति ङ.. , छ.. च

चन्द्रसम्पुटमध्यस्थं सर्वदुष्टविमर्दकम्(१) ।१३३.०३६
अथवा कर्णिकायाञ्च लिखेन्नाम च कारणम् ॥१३३.०३६
पूर्वे दले तथोङ्कारं स्वदक्षे चोत्तरे लिखेत् ।१३३.०३७
आग्नेय्यादौ च हूङ्कारन्दले षोडशके स्वरान् ॥१३३.०३७
चतुस्त्रिंशद्दले काद्यान् वाह्ये मन्त्रञ्च मृत्युजित् ।१३३.०३८
लिखेद्वैभूर्जपत्रे तु रोचनाकुङ्ग्कुमेन च ॥१३३.०३८
कर्पूरचन्दनाभ्याञ्च श्वेतसूतेण वेष्टयेत् ।१३३.०३९
सिक्थकेन परिच्छाद्य कलशोपरि पूजयेत् ॥१३३.०३९
यन्त्रस्य(२) धारणाद्रागाः शाम्यन्ति रिपवो मृतिः ।१३३.०४०
विद्यान्तु भेलखीं वक्ष्ये विप्रयोगमृतेर्हरीं(३) ॥१३३.०४०
ओं वातले वितले विडालमुखि इन्द्रपुत्रि उद्भवो वायुदेवेन खीलि आजी हाजा मयि वाह इहादि दुःखनित्यकण्ठोच्चैर्मुहूर्तान्वया अह मां यस्महं उपाडि ओं भेलखि ओं स्वाहा
नवदुर्गासप्तजप्तान्मुखस्तम्भो मुखस्थितात् ।१३३.०४१
ओं चण्डि ओं हूं फट्स्वाहा
गृहीत्वा सप्तजप्तं तु खद्गयुद्धेऽपराजितः ॥१३३.०४१

इत्याग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥
टिप्पणी
१ सर्वदुःखविमर्दकमिति झ..
२ मन्त्रस्येति क.. , ख.. , ग.. , छ.. च
३ रिपुरोगमृतेर्हरीमिति ग.. , घ.. , ङ.. , ज.. , झ. ञ.. च