"रामायणम्/युद्धकाण्डम्/सर्गः ३१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः १५७: पङ्क्तिः १५७:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२१, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकत्रिंशः सर्गः ॥६-३१॥

ततस्तमक्षोभ्यबलम् लङ्कायां नृपतेश्चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३१-१॥

चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥६-३१-२॥

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सु समाहिताः ।
अयम् नो मन्त्रकालो हि सम्प्रास्त इति राक्षसाः ॥६-३१-३॥

तस्य तच्चासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् ।
ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥६-३१-४॥

मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदन्न्तरम् ।
विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥६-३१-५॥

ततो राक्षसमादाय विद्युज्जिह्वम् महाबलम् ।
मायाविदम् महामायः प्रविशद्यत्र मैथिली ॥६-३१-६॥

विद्युज्जिह्वम् च मायाज्ञ्मब्रवीद्राक्षसाधिपः ।
मोहयिष्यावहे सीताम् मायया जनकात्मजाम् ॥६-३१-७॥

शिरो मायामयम् गृह्य राघवस्य विशाचर ।
मां त्वं समुपतिष्ठस्व महच्च सशरम् धनुः ॥६-३१-८॥

एवमुक्त स्तथेत्याह विद्युज्जिह्वो निशाचतः ।
दर्शयामास ताम् मायाम् सुप्रयुक्ताम् स रावणे ॥६-३१-९॥

तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ।
अशोकवनिकायाम् च सीतादर्शनलालसः ॥६-३१-१०॥

नैरृतानामधिपतिः सम्विवेश महाबलः ।
ततो दीनामदैन्यार्हाम् ददर्श धनदामजः ॥६-३१-११॥

अधोमुखीं शोकपरामुपविष्टाम् महीतले ।
भर्तारमेव ध्यायन्तीमशोकवनिकाम् गताम् ॥६-३१-१२॥

उपास्यमानाम् घोराभी राक्षसीभिरदूरतः ।
उपसृत्य ततः सीताम् प्रहर्षं नाम कीर्तयन् ॥६-३१-१३॥

इदम् च वचनम् धृष्टमुवाच जनकात्मजाम् ।
सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥६-३१-१४॥

खरहन्ता स ते भर्ता राघवः समरे हतः ।
चिन्नम् ते सर्वथा मूलम् दर्पश्च विहतो मया ॥६-३१-१५॥

व्यसनेनात्मनः सीते मम भार्या भविष्यसि ।
विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥६-३१-१६॥

भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ।
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥६-३१-१७॥

सृणु भर्तृनधम् सीते घोरं वृत्रवधं यथा ।
समायातः समुद्रान्तं हन्तुं मां किल राघवः ॥६-३१-१८॥

वानरेन्द्रप्रणीतेन बलेव महता वृतः ।
सम्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥६-३१-१९॥

बलेन महता रामो व्रजत्यस्तम् दिवाकरे ।
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितम् बलम् ॥६-३१-२०॥

सुखसुप्तं समासाद्य चरितम् प्रथमं चरैः ।
तत्प्रहस्तप्रणीतेन बलेन महता मम ॥६-३१-२१॥

बलमस्य हतम् रात्रौ यत्र रामः सलक्ष्मणः ।
पट्टिशान् परिघांश्चक्रानृष्टीर्दण्डान्महायुधान् ॥६-३१-२२॥

बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ।
यष्टीश्च तोमरान् प्रासाम्श्चक्राणि मुसलानि च ॥६-३१-२३॥

उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ।
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥६-३१-२४॥

असक्तम् कृतहस्तेन शिरश्छिन्नं महासिना ।
विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥६-३१-२५॥

दिशम् प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ।
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ॥६-३१-२६॥

निरस्तहनुकः श्रेते हनुमान् राक्षसैःर्हतः ।
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥६-३१-२७॥

पट्टिशैर्बहुभिश्छन्नो विकृत्तः सादपो यथा ।
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ ॥६-३१-२८॥

निःश्वसन्तौ रुदन्तौ च रुधिरेण परीवृतौ ।
असिना व्यायतौ चिन्नौ मध्ये ह्यरिनिषूदनौ ॥६-३१-२९॥

अनुष्वनति मेदिन्याम् पनसः यथा ॥६-३१-३०॥

वाराचैर्बहुभिश्छन्नः श्रेते दर्याम् दरीमुखः ।
कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥६-३१-३१॥

अङ्गदो बहुभिश्छ्न्नः शरैरासाद्य राक्षसैः ।
परितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥६-३१-३२॥

हरयो मथिता वागैरथ जालैस्तथापरे ।
शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥६-३१-३३॥

प्रसृताश्च परे त्रस्ताः हन्यमाना जघन्यतः ।
अनुद्रुतास्तु रक्षोBहिः सिम्हैरिव महाद्विपाः ॥६-३१-३४॥

सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।
ऋक्षा वृक्षामपारूढा वानरैर्व्यतिमिश्रिताः ॥६-३१-३५॥

सागरस्य च तीरेषु शैलेषु च वनेषु च ।
पिङ्गलास्ते विरूपाक्षे राक्षसैर्बहवो हताः ॥६-३१-३६॥

एवम् तव हतो भर्ता ससैन्यो मम सेवया ।
क्षतजार्द्रं रजोध्वस्तमिदं चाप्याहृतम् शिरः ॥६-३१-३७॥

ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ।
सीतायामुपशृण्वत्यां राक्षसीमिद मब्रवीत् ॥६-३१-३८॥

राक्षसम् क्रूरकर्माणम् विद्युज्जिह्वम् समानय ।
येन तद्रघनशिरः सङ्ग्रमात्स्वयमाहृतम् ॥६-३१-३९॥

विद्युज्जिह्व स्तदा गृह्य शिरस्तत्सशरासनम् ।
प्रणामम् शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥६-३१-४०॥

तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् ।
विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् ॥६-३१-४१॥

अग्रतः कुरु सीतायाः श्रीघ्रं दाशरथेः शिरः ।
अवस्थां पशिचमां भर्तुः कृपणा साधु पश्यतु ॥६-३१-४२॥

एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥६-३१-४३॥

रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् ।
त्रिषु लोकेषु विख्यातम् रामस्यैतदिति ब्रुवन् ॥६-३१-४४॥

इदम् तत्तव रामस्य कार्मुकं ज्यासमाव्R६इतम् ।
इह प्रहस्तेवानीतम् तम् हत्वा निशि मानुषम् ॥६-३१-४५॥

स विद्युजिह्वेन सहैव तच्छिरो ।
धमश्च भूमौ विनिकीर्य रावणः ।
विदेहराजस्य सुताम् यशस्विनीं ।
ततोऽब्रवीत्ताम् भव मे वशामुगा ॥६-३१-४६॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥६-३१॥

संबंधित कड़ियाँ

बाहरी कडियाँ