"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.९ पृष्ठं ऋग्वेदः सूक्तं ४.९ प्रति स्थानान्त...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]]
| author = वामदेवो गौतमः
| translator =
| section = सूक्तं ४.९
| previous = [[ऋग्वेद: सूक्तं ४.८|सूक्तं ४.८]]
| next = [[ऋग्वेद: सूक्तं ४.१०|सूक्तं ४.१०]]
| notes = दे. अग्निः। गायत्री
}}



<div class="verse">
<div class="verse">

०६:१२, २ अक्टोबर् २०१७ इत्यस्य संस्करणं

← सूक्तं ४.८ ऋग्वेदः - मण्डल ४
सूक्तं ४.९
वामदेवो गौतमः
सूक्तं ४.१० →
दे. अग्निः। गायत्री


अग्ने मृळ महाँ असि य ईमा देवयुं जनम् ।
इयेथ बर्हिरासदम् ॥१॥
स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः ।
दूतो विश्वेषां भुवत् ॥२॥
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति ॥३॥
उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे ।
उत ब्रह्मा नि षीदति ॥४॥
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।
हव्या च मानुषाणाम् ॥५॥
वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् ।
हव्यं मर्तस्य वोळ्हवे ॥६॥
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।
अस्माकं शृणुधी हवम् ॥७॥
परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥८॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.९&oldid=123795" इत्यस्माद् प्रतिप्राप्तम्