सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.4 चतुर्थी दशतिः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अतीहि मन्युषाविणं सुषुवांसमुपेरय ।
अस्य रातौ सुतं पिब ॥ २२३ ॥

कदु प्रचेतसे महे वचो देवाय शस्यते ।
तदिध्यस्य वर्धनं ॥ २२४ ॥

उक्थं च न शस्यमानं नागो रयिरा चिकेत ।
न गायत्रं गीयमानं ॥ २२५ ॥

इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः ।
हरिवान्त्सुतानां सखा ॥ २२६ ॥

आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः ।
महां इव युवजानिः ॥ २२७ ॥

कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः ।
दीर्घं सुतं वाताप्याय ॥ २२८ ॥

ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु ।
तवेदं सख्यमस्तृतं ॥ २२९ ॥

वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः ।
त्वं नो जिन्व सोमपाः ॥ २३० ॥

एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः ।
सत्राजिदुग्र पौंस्यम्॥ २३१ ॥

एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
एवा ते राध्यं मनः ॥ २३२ ॥