सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.2 द्वितीया दशतिः

विकिस्रोतः तः
Jump to navigation Jump to search

तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
समानमु प्र शंसिषं ।। २०४ ।।

असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
सजोषा वृषभं पतिं ।। २०५ ।।

सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा ।
मित्रास्पान्त्यद्रुहः ।। २०६ ।।

यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतं ।
वसु स्पार्हं तदा भर ।। २०७ ।।

श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनां ।
आशिषे राधसे महे ।। २०८ ।।

अरं त इन्द्र श्रवसे गमेम शूर त्वावतः ।
अरं शक्र परेमणि ।। २०९ ।।

धानावन्तं करम्भिणमपूपवन्तमुक्थिनं ।
इन्द्र प्रातर्जुषस्व नः ।। २१० ।।
पौषम्

अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
विश्वा यदजय स्पृधः ।। २११ ।।

इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः ।
तेषां मत्स्व प्रभूवसो ।। २१२ ।।

तुभ्यं सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो ।
स्तोतृभ्य इन्द्र मृडय ।। २१३ ।।