हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९८

विकिस्रोतः तः
← अध्यायः ०९७ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०९८
[[लेखकः :|]]
अध्यायः ०९९ →
बलभद्रस्य एकलव्येन सार्धं युद्धं, बलभद्रेण निषादानां संहारः

अष्टनवतितमोऽध्यायः

वैशम्पायन उवाच
एतस्मिन्नन्तरे क्रुद्ध एकलव्यो निषादपः ।
बलभद्रमभि क्षिप्रं धनुरादाय सत्वरम् ।। १ ।।
नाराचैर्दशभिर्विद्ध्वा बाणैश्च दशभिः परैः ।
चिच्छेद धनुरर्धं तत् सर्वक्षत्रस्य पश्यतः ।। २ ।।
सूतं दशभिराहत्य रथं त्रिंशद्भिरेव च ।
ध्वजं चिच्छेद भल्लेन निषादस्य जगत्पतिः ।। ३ ।।
ततः परं महच्चापं निषादो वीर्यसम्मतः ।
दृढमौर्व्या समायुक्तं दशतालप्रमाणतः ।। ४ ।।
कामपालं शरेणाशु जघान जनमध्यतः ।
बलदेवो महावीर्यः सर्पः शेष इव श्वसन् ।। ५ ।।
दशभिस्तद्धनुर्दिव्यं शरैः सर्पसमैर्बलः ।
चिच्छेद मुष्टिदेशे तु माधवो माधवाग्रजः ।। ६ ।।
एकलव्यो निषादेशः खड्गमादाय सत्वरः ।
प्राहिणोद् बलमादाय निशितं घोरविग्रहम् ।। ७ ।।
तमन्तरे पटुर्वीरो वृष्णिवीरः प्रतापवान् ।
तिलशः पञ्चभिर्बाणैश्चकार यदुनन्दनः ।। ८ ।।
ततोऽपरं महत् खड्गं सर्वकालायसं शुभम् ।
प्राहिणोत् सारथेः कायमालोक्याथ निषादजः ।। ९ ।।
तं चापि दशभिर्वीरो माधवो यदुनन्दनः ।
बाह्वोरन्तरयोश्चैव निर्बिभेद महारणे ।। 3.98.१० ।।
ततः शक्तिं समादाय घण्टामालाकुलां नृपः ।
निषादो बलदेवाय प्रेषयित्वा महाबलः ।। ११ ।।
सिंहनादं महाघोरमकरोत् स निषादपः ।
सा शक्तिः सर्वकल्याणी बलदेवमुपागमत् ।। १२ ।।
उत्पतन्तीं महाघोरां बलभद्रः प्रतापवान् ।
आदायाथ निषादेशं सर्वान् विस्मापयन्निव ।। १३ ।।
तयैव तं जघानाशु वक्षोदेशे च माधवः ।
स तया ताडितो वीरः स्वशक्त्याथ निषादपः ।। १४ ।।
विह्वलः सर्वगात्रेषु निपपात महीतले ।
प्राणसंशयमापन्नो निषादो रामताडितः ।। १५ ।।
निषादास्तस्य राजेन्द्र शतशोऽथ सहस्रशः ।
अष्टाशीतिसहस्राणि निषादास्तस्य योधिनः ।। १६ ।।
गदिनः खड्गिनश्चैव महेष्वासा महाबलाः ।
शरैरनेकसाहस्रैः शक्तिभिश्च परश्वधैः ।। १७ ।।
गदाभिः पट्टिशैः शूलैः परिघैः प्रासतोमरैः ।
कुन्तैरथ कुठारैश्च यादवानां महौजसाम् ।। १८ ।।
शलभा इव राजेन्द्र दीप्यमानं हुताशनम् ।
ते शरैः पातयांचक्रू रामं राममिवापरम् ।। १९ ।।
केचित् कुठारैराजघ्नुः केचित् कुन्तैः परश्वधैः ।
गदाभिः केचिदाघ्नन्ति शक्तिभिश्च तथा परे ।। 3.98.२० ।।
निजघ्नुः सहसा रामं स्फुरन्तं पावकं यथा ।
ततः क्रुद्धो हली साक्षाद्धलमुद्यम्य सत्वरम् ।। २१ ।।
सर्वानाकर्षयामास मुसलेन हि पीडयन् ।
ते हन्यमाना राजेन्द्र निषादाः पर्वताश्रयाः ।। २२ ।।
निपेतुर्धरणीपृष्ठे शतशोऽथ सहस्रशः ।
क्षणेन तन्महाराज हत्वा सर्वान् महाबलान् ।। २३ ।।
सिंहवद् व्यनदंस्तत्र तस्थौ रामो महाबलः ।
ततो रात्रौ महाघोराः पिशाचाः पिशिताशनाः।। २४ ।।
आकृष्य मांसयूथानि भक्षयन्तः समासते ।
पिबन्तः शोणितं कोष्ठात् संछिद्य च शवं बहु ।। २५ ।।
इति श्रीभहाभारते खिलभागे हरिवंशे भविष्यपर्वणि एकलव्यसैन्यवधे अष्टनवतितमोऽध्यायः ।। ९८ ।।