हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९९

विकिस्रोतः तः
← अध्यायः ०९८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०९९
[[लेखकः :|]]
अध्यायः १०० →
बलभद्रस्य एकलव्येन सार्धं एवं पौण्ड्रकस्य सात्यकिना सार्धं युद्धम्

नवनवतितमोऽध्यायः

वैशम्पायन उवाच
क्रव्यादाः सर्व एवाशु भक्षयन्तस्तदा शवम् ।
हसन्तो विविधं घोरं नादयन्तो वसुंधराम् ।। १ ।।
राक्षसाश्च पिशाचाश्च पिबन्तः शोणितं बहु ।
आशिखं भुञ्जते राजञ्छवस्य पिशिताशनाः ।। २ ।।
नृत्यन्ति स्म तदा राजन् नगर्यां रणतोषिताः ।
काका बलाका गृध्राश्च श्येना गोमायवस्तथा।। ३ ।।
भक्षयन्तः प्रवर्तन्ते राक्षसाश्चैव दारुणाः ।
एतस्मिन्नन्तरे वीरो निषादो लब्धसंज्ञकः ।। ४ ।।
हतान् सर्वान् समालोक्य निषादान् नगचारिणः।
गदामादाय कुपितो राममेव जगाम ह ।। ५ ।।
जघान गदया राजञ्जत्रुदेशे निषादपः ।
ततो रामो गदी राजन् निषादं बाहुशालिनम् ।। ६ ।।
आजघ्ने गदया क्रूरं मदमत्तो हलायुधः ।
तयोश्च तुमुलं युद्धं गदाभ्यां समवर्तत ।। ७ ।।
आकाशे शब्द आसीत् तु तयोर्युद्धे महाभुज ।
समुद्राणां यथा घोषः सर्वेषां संनिगच्छताम्।। ८ ।
कल्पक्षये महाराज शब्दः सुतुमुलोऽभवत् ।
क्षोभितो नागराजश्च नागाः क्षोभं समाययुः ।। ९ ।।
पृथिवी चान्तरिक्षं च सर्वं शब्दमयं बभौ ।
ततः स पौण्ड्रको राजा सात्यकिं वृष्णिनन्दनम्।। 3.99.१० ।।
गदयैव जघानाशु सत्वरं रणकोविदः ।
युयुधानो बली राजन् वासुदेवं जघान ह ।। ११ ।।
तयोश्च तुमुलः शब्दः प्रादुरासीन्महारणे ।
चतुर्णां युध्यतां राजन् परस्परवधैषिणाम् ।। १२ ।।
ब्रह्माण्डक्षोभणो राजञ्छब्द आसीत् सुदारुणः।
ततो रजः प्रादुरभूत् तस्मिन् संग्राममूर्धनि ।। १३ ।।
तारका निष्प्रभा राजंस्तमस्येवं क्षयं गते ।
उषसि प्रतिबुद्धायां ततो निःशेषतां ययौ ।। १४ ।।
उदितो भगवान् सूर्यश्चन्द्रश्च क्षयमाययौ ।
तेषां युद्धं प्रादुरभूच्चतुर्णां बाहुशालिनाम् ।
देवासुरसमं राजन्नुदिते भास्करे महत् ।। १५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकयुद्धे नवनवतितमोऽध्यायः ।। ९९ ।।