हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९६ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०९७
[[लेखकः :|]]
अध्यायः ०९८ →
सात्यकेः पौण्ड्रकस्य सार्द्धं युद्धम्

सप्तनवतितमोऽध्यायः

वैशम्पायन उवाच
ततः क्रुद्धो गदापाणिः सात्यकिर्वृष्णिनन्दनः ।
वासुदेवं जघानाशु गदया तीक्ष्णया नृप ।। १ ।।
सात्यकिं वासुदेवस्तु गदयाभ्यहनद् बली ।
तावुद्यतगदौ वीरौ शुशुभाते सुदारुणौ ।। २ ।।
दृप्तौ वने यथा सिंहौ परस्परवधैषिणौ ।
ततः स सात्यकिः क्रुद्धः सव्यं मण्डलमागमत् ।। ३ ।।
दक्षिणं वासुदेवस्तु तं जघान स्तनान्तरे ।
युयुधानोऽथ वीरस्तु बाह्वोर्मध्यमताडयत् ।। ४ ।।
दृढं स ताडितो वीरो जानुभ्यामपतद् भुवि ।
तत उत्थाय वीरस्तु ललाटेऽभ्यहनद् गदाम् ।। ५ ।।
विषण्णः किंचिदास्थाय तत उत्थाय सत्वरम् ।
गदयाभ्यहनद् वीरः सात्यकिः पौण्ड्रसत्तमम् ।। ६ ।।
वासुदेवो बली वीरः साक्षान्मृत्युरिवापरः ।
जघान गदया वृष्णिं निर्दहन्निव चक्षुषा ।। ७ ।।
स तया ताडितो वृष्णिर्गदया बाहुमुक्तया ।
आलम्ब्य भूमिं सहसा मृत्योरङ्कगतो यथा ।। ८ ।।
संज्ञां पुनः समालम्ब्य पाणिभ्यां दृढमेव च ।
गदां तस्य महाराज गृहीत्वा प्रग्रहेण ह ।। ९ ।।
द्विधा कृत्वा महागुर्वीं गदां कालायसीं शुभाम् ।
उत्सृज्य सहसा वीरः सिंहनादं व्यनीनदत् ।। 3.97.१० ।।
तत उत्सृज्य राजा तु वासुदेवो महाबलः ।
सव्येन सात्यकिं गृह्य दक्षिणेन करेण ह ।। ११ ।।
मुष्टिं कृत्वा महाघोरां वासुदेवः प्रतापवान् ।
ताडयामास मध्ये तु स्तनयोः सात्यकेर्नृप ।। १२ ।।
शैनेयो वृष्णिवीरस्तु गदामुत्सृज्य सत्वरम् ।
तलेनाभ्यहनद् वीरो वासुदेवं रणाजिरे ।। १३ ।।
तलेन वासुदेवोऽपि सात्यकिं सत्यसंगरम् ।
तयोरेवं महाघोरं तलयुद्धं प्रवर्तत ।। १४ ।।
जानुभ्यां मुष्टिभिश्चैव बाहुभ्यां शिरसा तदा ।
उरसोरः समाहत्य जानुभ्यां जानुनी तथा ।। १५ ।।
कराभ्यां करमाहत्य तौ युद्धं सम्प्रचक्रतुः ।
तालयोस्तत्र राजेन्द्र वृक्षयोः संनिकर्षयोः ।। १६ ।।
वने यथा निरुत्पन्नस्तथैवाभून्महास्वनः ।
तावाजौ प्रथितौ वीरावुभौ पौण्ड्रकसात्यकी ।। १७ ।।
निशि स्तिमितमूकायां शस्त्रं त्यक्त्वा महाबलौ ।
युयुधाते महारङ्गे मल्लौ द्वाविव विश्रुतौ ।। १८ ।।
उभे सेने महाराज्ञोः संशयं जग्मतुस्तदा ।
किं नु स्यात् सात्यकिर्वीरो हतस्तेन भविष्यति ।। १९ ।।
आहोस्विद् वासुदेवस्तु हतस्तेन महात्मना ।
अद्य वै तौ महावीरौ परस्परवधैषिणौ ।। 3.97.२० ।।
युध्यमानौ महावीरौ तदा स्वर्गं गमिष्यतः ।
अन्यथा नोपरम्येतां युद्धाद् वीरौ सुनिश्चितौ ।। २१ ।।
अहो वीर्यमहो धैर्यमेतयोर्बलशालिनोः ।
एतौ महाबलौ लोके एतौ प्रकृतिसत्तमौ ।। २२ ।।
नैवं युद्धं महाघोरमासीद् देवासुरेष्वपि ।
न श्रुतो न च वा दृष्टः संग्रामोऽयं कदाचन ।। २३ ।।
एते वै सैनिका ब्रूयुः सेनयोरुभयोरपि ।
रात्रौ निशीथे मेघौघे दृष्ट्वा युद्धं सुदारुणम् ।। २४ ।।
अथ तौ बाहुभिर्वीरौ सनिपेततुरञ्जसा ।
दशभिर्मुष्टिभिर्जघ्ने सात्यकिः पौण्ड्रकं तदा ।। २५ ।।
पञ्चभिः सात्यकिं पौण्ड्रः समाजघ्ने महाबलः ।
तयोश्चटचटाशब्दो ब्रह्माण्डक्षोभणो महान् ।
प्रादुरासीत् तु सर्वत्र सर्वान् विस्मापयन्निव ।। २६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकसात्यकियुद्धे सप्तनवतितमोऽध्यायः ।। ९७ ।।