सामग्री पर जाएँ

हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९६

विकिस्रोतः तः
← अध्यायः ०९५ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०९६
[[लेखकः :|]]
अध्यायः ०९७ →
पौण्ड्रकस्य सात्यकिना सह युद्धम्

षण्णवतितमोऽध्यायः

वैशम्पायन उवाच
ततः क्रुद्धो महाराज सात्यकिर्वृष्णिपुङ्गवः ।
उवाच वचनं राजन् वासुदेवं स्मरन्निव ।। १ ।।
अवोचदीदृशं वाक्यं वासुदेवं नृपाधमः ।
को नाम जगतां नाथमित्थं ब्रूयाज्जिजीविषुः ।। २ ।।
मृत्युस्त्वां सर्वथा याति वदन्तं तादृशं वचः ।
जिह्वा ते शतधा दीर्याद् वदतस्तादृशं वचः ।। ३ ।।
एष ते पातयिष्यामि शिरः कायाच्च पौण्ड्रक ।
यन्नाम वासुदेवेति तव सम्प्रति वर्तते ।। ४ ।।
यावत् पतति कायात्ते शिरस्तावत्प्रवर्तते ।
स एव श्वो न भगवान् वासुदेवो भविष्यसि ।। ५ ।।
एक एव जगन्नाथः कर्ता सर्वस्य सर्वगः ।
दुरात्मन् सर्वथा देवो भविष्यति न संशयः ।। ६ ।।
एष तेऽहं शिरः कायात् पातयिष्यामि राजक ।
यदसौ भगवान् विष्णुर्नागमिष्यति साम्प्रतम्।। ७ ।।
अस्त्रवीर्यं बलं चैव सर्वं दर्शय साम्प्रतम् ।
नातः परतरं राजन् वीर्यं च तव वर्तते ।। ८ ।।
सर्वं दर्शय यत्नेन स्थितोऽस्मि व्यवसायवान् ।
शरी चापी गदी खड्गी सर्वथाहमुपस्थितः ।। ९ ।।
नैतन्नगरमायासीः सत्यमेतद् ब्रवीम्यहम् ।
सर्वथा कृतकृत्योऽस्मि दृष्ट्वा त्वां वासुदेवकम् ।। 3.96.१० ।।
तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक ।
इत्युक्त्वा बाणमादाय वासुदेवं महाबलः ।। ११ ।।
आकर्णपूर्णमाकृष्य विव्याध निशितं शरम् ।
स तेन विद्धो यदुना वासुदेवः प्रतापवान् ।। १२ ।।
वमञ्छोणितमत्युष्णमङ्गान्नेत्रान्नृपोत्तम ।
ततश्चुक्रोध नृपतिर्वासुदेवः प्रतापवान् ।। १३ ।।
नवभिर्दशभिश्चैव शरैः संनतपर्वभिः ।
विव्याध सात्यकिं राजा नदंश्च बहुधा किल ।। १४ ।।
ततो नाराचमादाय निशितं यमसंनिभम् ।
धनुराकृष्य भगवान् वासुदेवो नृपोत्तम ।। १५ ।।
विव्याध सात्यकिं भूयो निशि प्रह्रादयन् स्वकान् ।
नाराचेन समाविद्धः सात्यकिः सत्यसङ्गरः ।। १६ ।।
ललाटे सुदृढं वीरो वृष्णीनामग्रणीस्तदा ।
निषसाद रथोपस्थे निश्चेष्ट इव सत्तमः ।। १७।।
ततः स पौण्ड्रको राजा विद्ध्वा दशभिराशुगैः ।
सारथिं पञ्चविंशत्या हयांश्च चतुरो नृप ।। १८ ।।
ते हया रुधिराक्ताङ्गाः सारथिश्च समन्ततः ।
विह्वलाः समपद्यन्त वासुदेवस्य पश्यतः ।। १९ ।।
वासुदेवो रथे चापि सिंहनादं समाददे ।
तेन नादेन तत्राभूद् विबुद्धः सात्यकिर्नृप ।। 3.96.२० ।।
विद्धान् हयांस्तथा दृष्ट्वा सारथिं च तथागतम् ।
शैनेयोऽथ महावीर्यो रुषितो नृपसत्तम ।। २१ ।।
अलं द्रक्ष्यामि ते वीर्यमित्युक्त्वा बाणमाददे ।
विव्याध तेन बाणेन वक्षस्येनं महाबलः ।। २२ ।।
ततश्चचाल तेनाजौ वासुदेवः शरेण ह ।
सुस्राव रुधिरं घोरमत्युष्णं वक्षसो नृप ।। २३ ।।
रथोपस्थे पपाताशु निःश्वसन्नुरगो यथा ।
कृत्यं चापि न जानाति केवलं निषसाद ह ।। २४ ।।।
सात्यकिस्तु रथं विद्ध्वा दशभिः सायकैस्तथा ।
ध्वजं चिच्छेद भल्लेन वासुदेवस्य वृष्णिपः ।। २५ ।।
हयांश्च चतुरो हत्वा बाणैः सारथिमेव च ।
युयुधानोऽथ राजेन्द्र पौण्ड्रकस्य च पश्यतः ।। २६ ।।
सारथेश्च शिरः कायादहरत् स रथात् तदा ।
रथग्रन्थिं च चिच्छेद हयाश्च व्यसवोऽभवन् ।। २७ ।।
चक्रं च तिलशः कृत्वा बाणैर्दशभिरञ्जसा ।
जहास विपुलं राजन् वासुदेवं महाबलः ।। २८ ।।
ततः परं महत्प्रायं सात्यकिर्वृष्णिनन्दनः ।
शब्दं कृत्वा बली साक्षात् सर्वक्षत्रस्य पश्यतः ।। २९ ।।
शरैः सप्ततिसंख्याकैरर्दयामास सत्वरम् ।
ते शराः शलभाकारा निपेतुः सर्वशस्तदा ।। 3.96.३० ।।
शिरस्तः पार्श्वतश्चैव पृष्ठतः पुरतस्तथा ।
केवलं धैर्यनिचयस्तृषार्तः शरवान् यथा ।। ३१ ।।
यथा मनस्वी रिक्तश्च तथा तिष्ठति पौण्ड्रकः ।
ततश्चुक्रोध बलवान् वासुदेवः प्रतापवान् ।। ३२ ।।
अर्धचन्द्रं समादाय विव्याध युधि सात्यकिम् ।
विद्ध्वा सप्तभिरायान्तं क्रोधेन प्रस्फुरन्निव ।। ३३ ।।
विद्धोऽथ सात्यकिस्तेन शरैः पञ्चभिराशुगैः ।
चापं चिच्छेद पौण्ड्रस्य सिंहनादं व्यनीनदत् ।। ३४ ।।
वासुदेवो गदां गृह्य भ्रामयित्वा पदात्पदम् ।
त्वरितं पातयामास सात्यकेर्वक्षसि प्रभो ।। ३५ ।।
सव्येन तां समाकृष्य करेण यदुनन्दनः ।
शरं प्रगृह्य विव्याध सात्यकिर्युधि पौण्ड्रकम् ।। ३६ ।।
तमन्तरे गृहीत्वाशु वासुदेवः प्रतापवान् ।
शक्तिभिर्दशभिश्चैव सात्यकिं निजघान ह ।। ३७ ।
ताभिर्विद्धो रणे वीरः सात्यकिः सत्यसंगरः ।
अपास्य धनुरन्यत् तद् धनुरादाय सत्वरम् ।
आजघान तदा वीरो वृष्णीनामग्रणीर्नृप ।। ३८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकसात्यकियुद्धे षण्णवतितमोऽध्यायः ।। ९६ ।।