हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९५
← अध्यायः ०९४ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०९५ [[लेखकः :|]] |
अध्यायः ०९६ → |
पौण्ड्रकेन पूर्वद्वारस्य प्राकारचयानां भेदनस्य प्रयत्नं, सात्यक्यादि यादववीराणां रक्षार्थं आगमनम्, सात्यकिना वायव्यास्त्रेन पौण्ड्रकसैनिकान् अपनयित्वा पौण्ड्रकस्य युद्धाय आह्वानं, पौण्ड्रकस्य गर्वोक्तिः |
पञ्चनवतितमोऽध्यायः
वैशम्पायन उवाच
निवृत्तेष्वथ सैन्येषु वृष्णिवीरेषु चैव हि ।
भीतेष्वथ महाराज हतेषु युधि सर्वतः ।। १ ।।
दीपिकासु प्रशान्तासु निःशब्दे सति सर्वतः ।
जितमित्येव यन्मत्वा वृष्णीनां बलमुत्तमम् ।। २ ।।
ततः पौण्ड्रो महावीर्यो बभाषे सैनिकान् स्वकान्।
शीघ्रं गच्छत राजेन्द्राष्टङ्कैः कुन्तैः पुरीमिमाम् ।। ३ ।।
कुठारैः कुन्तलैश्चैव पाषाणैः सर्वतोदिशम् ।
कर्षणस्थैः सुपाषाणैः सर्वतो यात भूमिपाः ।। ४ ।।
भिद्यन्तां प्राकारचयाः प्रासादाश्च समन्ततः ।
गृह्यन्तां कन्यकाः सर्वा दास्यश्चैव समन्ततः।। ५ ।।
गृह्यन्तां वसुमुख्यानि धनानि सुबहून्यथ ।
ते तथेति महात्मानो राजानः सर्व एव तु ।। ६ ।।
कुठारैः सर्वतश्चैव चिच्छिदुः पौण्ड्रकाज्ञया ।
प्राकारांश्चैव सर्वत्र प्रासादान् नरसंचयान् ।। ७ ।।
अथ तत्र महाशब्दः प्रादुरासीत् समन्ततः ।
टङ्केषु पात्यमानेषु प्राकारेषु महाबलैः ।। ८ ।।
पूर्वद्वारे महाराज भिन्नाः प्राकारसंचयाः ।
श्रुत्वा शब्दं महाघोरं सात्यकिः क्रोधमूर्च्छितः।। ९ ।।
मयि सर्वं समारोप्य केशवो यादवेश्वरः ।
गतः कैलासशिखरं द्रष्टुं शंकरमव्ययम् ।। 3.95.१० ।।
अवश्यं हि मया रक्ष्या पुरी द्वारवती त्वियम् ।
इति संचिन्त्य मनसा धनुरादाय सत्वरम् ।। ११ ।।
रथं महान्तमारुह्य दारुकस्य महात्मनः ।
पुत्रेण संस्कृतं घोरं यन्ता च स्वयमेव हि ।। १२ ।।
धनुर्महत् तदादाय शरांश्चाशीविषोपमान् ।
आमुच्य कवचं घोरं शस्त्रसम्पातदुःसहम् ।। १३ ।।
अङ्गदी कुण्डली तूणी शरी चापी गदासिमान् ।
ययौ युद्धाय शैनेयः संस्मरन् कैशवं वचः ।। १४ ।।
दीपिकादीपिते देशे ययौ सात्यकिरुत्तमः ।
तथैव बलदेवोऽपि रथमारुह्य भास्वरम् ।। १५ ।।
गदी शरी महावीर्यः प्रायाद् रणचिकीर्षया ।
सिंहनादं प्रकुर्वन्तो मुञ्चन्तो भैरवं रवम् ।। १६ ।।
उद्धवोऽपि बली साक्षाद् गजमारुह्य सत्वरम् ।
मत्तं महारवं घोरं संग्रामे नीतिमत्तरः ।। १७ ।।
ययौ नीतिं विचिन्वानः परां प्रीतिं महाबलः ।
अन्ये च वृष्णयः सर्वे ययुः संग्रामलालसाः ।। १८ ।।
रथान्गजान्समारुह्य हार्दिक्यप्रमुखास्तथा ।
दीपिकाभिश्च सर्वत्र पुरोवृत्ताभिरीश्वराः ।। १९ ।।
सिंहनादं प्रकुर्वन्तः स्मरन्तः कैशवं वचः ।
पूर्वद्वारं समागम्य वृष्णयो युद्धलालसाः ।। 3.95.२० ।।
ते समेत्य यथायोगं स्थितास्तत्र महाबलाः ।
स्थिते सैन्ये महाघोरे दीपिकादीपिते पथि ।। २१ ।।
शिनिर्वीरः शरी चापी गदी तूणीरवान्विभो ।
वायव्यास्त्रं समादाय योजयित्वा महाशरम् ।। २२ ।।
आकर्णं तूर्णमाकृष्य धनुःप्रवरमुत्तमम् ।
मुमोच परसैन्येषु शिनिर्वीरः प्रतापवान् ।। २३ ।।
वायव्यास्त्रेण ते सर्वे तत्रस्था नरसत्तमाः ।
विजिता ह्यस्त्रवीर्येण यत्र तिष्ठति पौण्ड्रकः ।। २४ ।।
तत्र गत्वा स्थिताः सर्वे निर्धूता वातरंहसा ।
यत्र पूर्वं स्थिताः सर्वे विद्रुता राजसत्तमाः ।। २५ ।।
तत्र स्थित्वा च शैनेयः शरमादाय सत्वरम् ।
निशितं सर्पभोगाभं बभाषे सात्यकिस्तदा ।। २६ ।।
क्व इदानीं महाबुद्धिः पौण्ड्रको राजसत्तमः ।
स्थितोऽस्मि व्यवसायेन शरी चापी महाबलः।। २७ ।।
यदि द्रष्टा दुरात्मानं ततो हन्ता नृपाधमम् ।
भृत्योऽस्मि केशवस्याहं जिघांसुः पौण्ड्रकं स्थितः ।।२८।।
छित्त्वा शिरस्तु तस्यास्य सर्वक्षत्रस्य पश्यतः ।
बलिं दास्यामि गृध्रेभ्यः श्वभ्यश्चैव दुरात्मनः ।। २९ ।।
को नाम ईदृशं कर्म चौरवच्च समाचरेत् ।
सुप्तेषु निशि सर्वत्र यादवेषु महात्मसु ।। 3.95.३० ।।
चौरोऽयं सर्वथा राजा न हि राजा बलान्वितः ।
यदि शक्तो न कुर्याच्च चौर्यमेवं नृपाधमः ।। ३१ ।।
अहोऽस्य बलिनो राज्ञश्चौरकार्यं प्रकुर्वतः ।
सर्वथाऽऽगमनं तस्य न हि पश्यामि साम्प्रतम् ।। ३२ ।।
इत्युक्त्वा सात्यकिर्वीरः प्रजहास महाबलः ।
विस्फार्य सुदृढं चापं संदधे कार्मुके शरम् ।। ३३ ।।
आकर्ण्य वचनं वीरः सात्यकेस्तस्य धीमतः ।
क्व नु कृष्णः क्व गोपालः कुतः सोऽथ प्रवर्तते ।। ३४ ।।
स्त्रीहन्ता पशुहन्ता च क्व च स्वामीति सेवितः ।
स इदानीं क्व वर्तेत गृहीत्वा मम नाम तत् ।। ३५ ।।
हन्ता सख्युर्महावीर्यो नरकस्य महात्मनः ।
ममैव तात युद्धेऽस्मिन्हते तस्मिन्दुरात्मनि ।। ३६ ।।
गच्छ त्वं कामतो वीर योद्धुं न क्षमते भवान् ।
अथवा तिष्ठ किंचित्तु ततो द्रष्टासि मे बलम्। ३७ ।।
शिरस्ते पातयिष्यामि शरैर्घोरैर्दुरासदैः ।
हतस्य तव वीरेह भूमिः पास्यति शोणितम् ।। ३८ ।।
श्रोष्यते स तथा गोपो हतः सात्यकिरित्यपि ।
यो गर्वस्तस्य गोपस्य सर्वदा वर्तते महान् ।। ३९ ।।
विनश्यति स तु क्षिप्रं हते त्वयि यदूत्तम ।
त्वयि रक्षां समादिश्य गोपः कैलासपर्वतम् ।। 3.95.४० ।।
गत इत्येवमस्माभिः श्रुतं पूर्वं महामते ।
शरं गृहाण निशितं यदि शक्तोऽसि सात्यके ।
इत्युक्त्वा बाणमादाय ययौ योद्धं व्यवस्थितः।। ४१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि रात्रियुद्धे सात्यकिपौण्ड्रकभाषणे पञ्चनवतितमोऽध्यायः ।। ९५।।