हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९४
← अध्यायः ०९३ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०९४ [[लेखकः :|]] |
अध्यायः ०९५ → |
यादववीरेभिः पौण्ड्रकस्य सैन्यस्य एवं एकलव्येन यादवसैन्यस्य संहारम् |
चतुर्नवतितमोऽध्यायः
वैशम्पायन उवाच
ततश्च यादवाः सर्वे दृष्ट्वा सैनिकसंचयम् ।
रात्रौ व व्यसनं प्राप्तं महाशस्त्रसमाकुलम् ।। १ ।।
महावातसमुद्भूतं कल्पान्ते सागरोपमम् ।
संनद्धाः समपद्यन्त शस्त्रिणो युद्धलालसाः ।। २ ।।
गृहीतदीपिकाः सर्वे यादवाः शस्त्रयोधिनः ।
सात्यकिर्बलभद्रश्च हार्दिक्यो निशठस्तथा ।। ३ ।।
उद्धवोऽथ महाबुद्धिरुग्रसेनो महाबलः ।
अन्ये च यादवाः सर्वे कवचप्रग्रहे रताः ।। ४ ।।
समस्तयुद्धकुशला रात्रौ सन्नाहयोधिनः ।
शस्त्रिणः खड्गिनश्चैव सर्वे शस्त्रसमाकुलाः ।। '५ ।।
युद्धाय समपद्यन्त बहवो बाहुशालिनः ।
रथिनो गजिनश्चैव सादिनः सायुधास्तथा ।। ६ ।।
नित्ययुक्ता महात्मानो धन्विनः पुरुषोत्तमाः ।
निर्ययुर्नगरात् तूर्णं दीपिकाभिः समन्ततः ।। ७ ।।
कुतः पौण्ड्रक इत्येवं वदन्तः सर्वसात्वताः ।
दीपिकादीपितो देशो निस्तमाः समपद्यत ।। ८ ।।
ततो वितिमिरो देशः समन्तात् प्रत्यपद्यत ।
युद्धं समभवद् घोरं वृष्णिभिः शत्रुभिः सह ।। ९ ।।
ततो महान् समभवत् संनादो रोमहर्षणः ।
हया हयैः समायुक्ताः गजाश्च गजयूथपैः ।। 3.94.१० ।।
रथा रथैः समायुक्ताः सादिभिः सादिनस्तथा ।
खड्गिनः खड्गिभिः सार्धं गदिभिर्गदिनस्तथा ।। ११ ।।
परस्परव्यतीकारो रण आसीत् सुदारुणः ।
महाप्रलयसंक्षोभः शब्दस्तेषां महात्मनाम् ।। १२ ।।
धावन्तः प्रहरन्त्येतान् घ्नन्त्येतान् सर्वतो नृपान्।
अयमेष महाबाहुः खड्गी पतति वीर्यवान् ।। १३ ।।
अयमेष शरो घोरो वर्ततेऽतिसुदारुणः ।
गदी चायं महावीर्यः सर्वान् नो बाधते नृपः ।। १४ ।।
अयं रथी शरी चापी गदी तूणी तनुत्रवान्।
पट्टिशी सर्वतो याति कुन्तपाणिरयं बली ।। १५ ।।
अयमत्र महाशूली संश्रितः सर्वतो दिशम् ।
गजोऽयं सविषाणाग्रो वर्तते सर्वतः प्रति ।। १६ ।।
अतिसर्वत्रगः शूरो वेगवान् वातसंनिभः ।
शराञ्च्छरैः समाहन्ति दण्डान् दण्डैर्जगत्पते ।। १७ ।।
कुन्तान् कुन्तैः समाजघ्नुर्गदाभिश्च गदास्तथा।
परिघान् परिघैः सार्धं शूलाञ्च्छूलैः समन्ततः ।। १८ ।।
एवं तेषां महाराज कुर्वतां रणमुत्तमम् ।
संग्रामः सुमहानासीच्छब्दश्चापि महानभूत् ।। १९ ।।
भूतानि सुबहून्याजौ शब्दवन्ति महान्ति च ।
प्रादुरासन् सहस्राणि शङ्खानां भीमनिःस्वनः ।। 3.94.२० ।।
रात्रौ प्रादुरभूच्छब्दः संग्रामे रोमहर्षणः ।
वर्तमाने महायुद्धे वृष्णीनां चैव तैः सह ।। २१ ।।
केचिद् ग्रस्ताः समापेतुः पृथिव्यां पृथिवीक्षितः।
केचिच्च पतिताः क्लिष्टाः विप्रकीर्णशिरोरुहाः ।। २२ ।।
पेतुरुर्व्यां महावीर्या राजानः शस्त्रपाणयः ।
केचित् तु भिन्नवर्माणः समापेतुः सहस्रधा ।। २३ ।।
परस्परं समाश्रित्य परस्परवधैषिणः ।
न्यस्तशस्त्रा महात्मानः समन्तात् क्षतविग्रहाः ।। २४ ।।
पेतुर्गतासवः केचिद् यमराष्ट्रविवर्धनाः ।
एवं ते निहता राजन् योधिताः सर्व एव तु ।। २५ ।।
एतस्मिन्नन्तरे शूर एकलव्यो निषादपः ।
धनुर्गृह्य महाघोरं कालान्तकयमोपमः ।। २६ ।।
शरैरनेकसाहस्रैरर्दयामास यादवान् ।
परःशतैः शराणां तु निशितैर्मर्मभेदिभिः ।। २७ ।। ।
वृष्णीनां च बलं सर्वं पोथयामास सर्वतः ।
युद्ध्यतः शस्त्रपाणींश्च क्षत्रियान् वीर्यवत्तरान्।। २८ ।।
निशठं पञ्चविंशत्या शराणां नतपर्वणाम् ।
सारणं दशभिर्विद्ध्वा हार्दिक्यं पञ्चभिः शरैः ।। २९ ।।
उग्रसेनं नवत्याशु वसुदेवं च सप्तभिः ।
उद्धवं दशभिश्चैव ह्यक्रूरं पञ्चभिः शरैः ।। 3.94.३० ।।
एवमेकैकशः सर्वे निहता निशितैः शरैः ।
विद्राव्य यादवीं सेनां नाम विश्राव्य वीर्यवान्।। ३१ ।।
एकलव्यो यदुवृषान् वीर्यवान् बलवानहम् ।
इदानीं सात्यकिर्वीरः क्व यास्यति महाबलः ।। ३२ ।।
मदमत्तो हली साक्षात् क्व यातीह गदाधरः ।
इत्याह सिंहनादेन सिंहान् विस्मापयन्निव ।। ३३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकवधे रात्रियुद्धे चतुर्नवतितमोऽध्यायः ।। ९४ ।।