हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९२

विकिस्रोतः तः
← अध्यायः ०९१ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०९२
[[लेखकः :|]]
अध्यायः ०९३ →
पौण्ड्रकस्य अन्तिके नारदस्यागमनं, तस्य सार्धं वार्तालापः

द्विनवतितमोऽध्यायः

वैशम्पायन उवाच
ततः कैलासशिखरान्निर्गतो मुनिसत्तमः ।
नारदः सर्वलोकज्ञः पौण्ड्रस्य नगरं प्रति ।। १ ।।
अवतीर्य नभोभागात् प्रत्यागम्य नरोत्तमम् ।
द्वाःस्थेन च समाज्ञप्तः प्रविवेश गृहोत्तमम् ।। २ ।।
अर्घ्यादिसमुदाचारं नृपाल्लब्ध्वा महामुनिः ।
निषसादासने शुभ्रे ह्यास्तृते शुभवाससा ।। ३ ।।
कुशलं पृष्टवान्भूयो नृपः स मुनिसत्तमम् ।
उवाच नारदं भूयः पौण्ड्रको बलगर्वितः ।। ४ ।।
भवान् सर्वत्र कुशलः सर्वकार्येषु पण्डितः ।
प्रथितो देवसिद्धेषु गन्धर्वेषु महात्मसु ।। ५ ।।
सर्वत्रगो निराबाधो गत्वा सर्वत्र सर्वदा ।
अगम्यं तव विप्रेन्द्र ब्रह्माण्डे न हि किंचन ।
नारदेदं वद त्वं हि यत्र यत्र गतो भवान् ।। ६ ।।
तत्र तत्र तपःसिद्धो लोके प्रथितवीर्यवान् ।
पौण्ड्र एव च विख्यातो वासुदेवेति शब्दितः ।। ७ ।।
शङ्खी चक्री गदी शार्ङ्गी खड्गी तूणी तनुत्रवान् ।
विजेता राजसिंहानां दाता सर्वस्य सर्वदा ।। ८ ।।
भोक्ता राज्यस्य सर्वस्य शास्ता राजा बलाद् बली ।
अजेयः शत्रुसैन्यानां रक्षिता स्वजनस्य च ।। ९ ।।
योऽद्य गोपकनामासौ वासुदेवेति शब्दितः ।
तस्य वीर्यबले न स्तो नाम्नोऽस्य मम धारणे ।। 3.92.१० ।।
स हि गोपो वृथा बाल्याद्धारयत्येव नाम मे ।
इदं निश्चिनु विप्रेन्द्र एक एव भवाम्यहम् ।। ११ ।।
वासुदेवो जगत्यस्मिन् निर्जित्य बलिनं यदुम् ।
वृष्णीन्सर्वान् बलात् क्षिप्त्वा निहनिष्ये च तां पुरीम् ।।
द्वारकां विष्णुनिलयां योद्धा चाहं महामते ।
एते च बलिनः सर्वे नृपा मम समागताः ।। १३ ।।
अश्वाश्च वेगिनः सन्ति रथा वायुजवा मम ।
उष्ट्रा मत्ताः सहस्रं च गजा नियुतमेव च ।। १४ ।।
एतेनाहं बलेनाजौ हनिष्ये केशवं रणे ।
तस्मादेवं सदा विप्र वद ब्रह्मन् पुरे मम ।। १५ ।।
इन्द्रस्यापि सदा विप्र वद नारद साम्प्रतम् ।
प्रार्थनैषा मम विभो नमस्ये त्वां तपोधन ।। १६ ।।
नारद उवाच
सर्वत्रगः सदा चास्मि यावद् ब्रह्माण्डसंस्थितिः ।
आचार्यः सर्वकार्येषु गमने केनचिन्नृप ।। १७ ।।
किं नु वक्तुं तथा राजन्नुत्सहे नृपसत्तम ।
महीं शासति देवेशे चक्रपाणौ जनार्दने ।। १८ ।।
विष्णौ सर्वत्रगे देवे दुष्टान् हत्वा सबान्धवान् ।
वासुदेवेति को नाम तिष्ठत्यस्मिन् हराविति ।। १९ ।।
को नाम वक्तुमेवेदं कृष्णे शासति गोमती ।
अज्ञानाद् वक्तुमेवं च समर्थाः प्राकृता जनाः ।। 3.92.२० ।।
हरिः सर्वत्रगो विष्णुर्दर्पं ते व्यपनेष्यति ।
अचिन्त्यविभवो विष्णुः शार्ङ्गधन्वा गदाधरः ।। २१
आदिदेवः पुराणात्मा दर्प ते व्यपनेष्यति ।
हास्यमेतन्महाराज यच्च वै तत्र संस्थितम् ।। २२ ।।
शार्ङ्ग खड्गं तथा राजन् महाघोरं न दाप्यते ।
अतीव ह्रासकालोऽयं तव सम्प्रति वर्तते ।। २३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकनारदसंवादे द्विनवतितमोऽध्यायः ।। ९२ ।।