हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०९१

विकिस्रोतः तः
← अध्यायः ०९० हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०९१
[[लेखकः :|]]
अध्यायः ०९२ →
पौण्ड्रकेन राजानां सभायां स्वकं शङ्ख, चक्रादि युक्तं वासुदेवं घोषयित्वा श्रीकृष्णस्य पराजयितुं काङ्क्षाकरणम्

एकनवतितमोऽध्यायः

वैशम्पायन उवाच
एतस्मिन्नेव काले तु पौण्ड्रो नृपवरोत्तमः ।
बलवान् सत्त्वसम्पन्नो योद्धा विपुलविक्रमः ।। १ ।।
वृष्णिशत्रुस्तदा राजा कृष्णद्वेषी बलात् तदा ।
नृपान् सर्वान् समाहूय प्रोवाच नृपसंसदि ।। २ ।।
जिता च पृथिवी सर्वा जिताश्च नृपसत्तमाः ।
वृष्णयस्ते बलोन्मत्ताः कृष्णमाश्रित्य गर्विताः ।। ३ ।।
दास्यन्ति मे करं सर्वे न हि ते कृष्णसंश्रयात् ।
स तु कृष्णश्चक्रबलान्मामवज्ञाय तिष्ठति ।। ४ ।।
अहं चक्रीति गर्वोऽभूत्तस्य गोपस्य सर्वदा ।
शङ्खी चक्री गदी शार्ङ्गी शरी तूणी सहायवान् ।। ५ ।।
एवमादिर्महागर्वस्तस्य सम्प्रति वर्तते ।
लोके च मम यन्नाम वासुदेवेति विश्रुतम् ।। ६ ।।
अगृह्णान्मम तन्नाम गोपो मदबलान्वितः ।
तस्य चक्रस्य यच्चक्रं ममापि निशितं महत् ।। ७ ।।
गर्वहन्तृ सदा तस्य नाम्ना चापि सुदर्शनम् ।
सहस्रारं महाघोरं तस्य चक्रस्य नाशनम् ।। ८ ।।
अनेकमहतं चक्रं गोपजस्य नृपोत्तमाः ।
ममाप्येतद् धनुर्दिव्यं शार्ङ्गं नाम महारवम् ।। ९ ।।
गदा कौमोदकी नाम ममेयं बृहती दृढा ।
कालायससहस्रस्य भारेण सुकृता मया ।। 3.91.१० ।।
खड्गो नन्दकनामासौ ममायं विपुलो दृढः ।
अन्तकस्यान्तको घोरस्तस्य खड्गस्य नाशकः ।। ११ ।।
तत्राहं च गदी खड्गी शङ्खी चक्री तनुत्रवान् ।
युधि जेता च कृष्णस्य नात्र कार्या विचारणा ।। १२ ।।
मां च ब्रूत नृपाश्चैव गदिनं चक्रिणं तथा ।
शङ्खिनं शार्ङ्गिणं वीरं ब्रूत नित्यं नृपोत्तमाः ।। १३ ।।
वासुदेवेति मां ब्रूत न तु गोपं यदूत्तमम् ।
एकोऽहं वासुदेवो हि हत्वा तं गोपदारकम् ।। १४ ।।
सख्युर्मम बलाद्धन्ता नरकस्य महात्मनः ।
मां तथा यदि न ब्रूत दण्ड्या भारशतैः शतम्।। १५ ।।
सुवर्णस्य च निष्कस्य धान्यस्य बहुशस्तदा ।
तथा ब्रुवति राजेन्द्रे मनसा दुस्सहं यथा ।। १६ ।।
केचिल्लज्जासमायुक्ता आसंस्ते बलवत्तराः ।
रसज्ञा बलवीर्यस्य राजानस्ते सदा नृप ।। १७ ।।
अपरे तु नृपा राजन्नेवमेवेति चुक्रुशुः ।
अन्ये बलमदोत्सिक्ता जेष्यामः केशवं रणे ।। १८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकोक्तौ एकनवतितमोऽध्यायः ।। ९१ ।।