हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७८
← अध्यायः ०७७ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०७८ [[लेखकः :|]] |
अध्यायः ०७९ → |
भगवतः श्रीकृष्णस्य समाधिः, महान् कोलाहलं, तस्य पार्श्वे धावद्भ्यां मृगादीनां आगमनम् |
अष्टसप्ततितमोऽध्यायः
वैशम्पायन उवाच
ततः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ।
यत्र पूर्वम तपस्तप्तमात्मना यादवेश्वरः ।। १ ।।
गङ्गायाश्चोत्तरे तीरे देशं द्रष्टुमुपागतः ।
स्वयमेव हरिः साक्षात् प्रविवेश तपोवनम् ।। २ ।।
प्रविश्य सुचिरं देशं ददर्श च मनोरमम् ।
निषसाद ततस्तस्मिन्नाश्रमे पुण्यवर्धनः ।। ३ ।।
समाधौ योजयामास मनः पद्मनिभेक्षणः ।
किमप्येष जगन्नाथो ध्यात्वा देवेश्वरः स्थितः ।। ४ ।।
स्थिते देवगुरौ तत्र समाधौ दीपवद्धरौ ।
तत्र शब्द महाघेरः प्रादुरासीत् समन्ततः ।। ५ ।।
खाद खादत मोदेत यात यात मृगानिमान् ।
प्रेषयेह पुनः सर्वान् प्रसादाच्छार्ङ्गधन्वनः ।। ६ ।।
एष विष्णुरयं कृष्णो हरिरीश इतोऽच्युतः ।
नमोऽस्तु विष्णो देवेश स्वामिन्माधव केशव।। ७ ।।
इत्यादिशब्दः सुमहानाविरासीत् तदा निशि ।
ततश्च सुमहानादः सिंहानां मृगविद्विषाम् ।। ८ ।।
धावतां च शुनां राजन् मृगाननु विनर्दताम् ।
मृगाणां भीतियुक्तानामृक्षाणां द्वीपिनां तथा ।। ९ ।।
गजानां नदतां राजन् बृंहितं च ततस्ततः ।
महावातसमुद्धूतक्षुभितस्येव वारिधेः ।। 3.78.१० ।।
नादस्त्रैलोक्यवित्रासः प्रादुरासीत्तदा निशि ।
श्रुत्वा शब्दं हरिर्देवस्तादृशं तत्र धिष्ठितः ।। ११ ।।
समाधिक्षोभमासाद्य विश्वस्य च जगत्पतिः ।
ततः संचिन्तयामास कोऽयमेष महास्वनः ।। १२ ।।
कस्यायमीदृशः शब्दः स्तुतियुक्तो मम त्विति ।
अहोऽस्मिन्मृगयाशब्दः शुनां संचरतां वने ।। १३ ।।
मृगाणामथ सर्वेषां नादश्च सुमहानयम् ।
व्यामिश्रस्तुतियुक्ताभिर्वाग्भिर्मम समन्ततः ।। १४ ।।
इति संचिन्त्य मनसा दिशो विप्रेक्ष्य सर्वतः ।
तत आस्ते हरिस्तत्र ज्ञातुं तस्य समुद्भवम् ।। १५ ।।
ततो मृगाः समाधावन् यत्र तिष्ठति केशवः ।
तांश्चैवानुचरो राजन् श्वगणः समपद्यत ।। १६ ।।
अथ वै दीपिका राजञ्छतशोऽथ सहस्रशः ।
ततस्तमोऽपि व्यनशद् दिवेव समपद्यत ।। १७ ।।
ततो नु भूतसङ्घाश्च समदृश्यन्त तत्र ह ।
पिशाचाश्च महाघोरा नदन्तो बहु विस्वनम् ।। १८ ।।
भक्षयन्तोऽथ पिशितं पिबन्तो रुधिरं बहु ।
प्रादुरासन्महाघोराः पिशाचा विकृताननाः ।। १९ ।।
हन्यमाना हता राजन् पतन्तः पतिता मृगाः ।
इतश्चेतश्च धावन्तो बाणैर्विद्धा मृगा द्विपाः ।। 3.78.२० ।।
ततो मृगसहस्राणि समुदीर्णानि भारत ।
यत्रासौ तिष्ठते देवस्तत्र याता निरन्तरम् ।। २१ ।।
अन्तरीकृत्य देवेशं स्थितानीत्यनुशुश्रुम ।
पिशाच्यो विकृताकाराः कराला रोमहर्षणाः ।। २२ ।।
पुत्रवत्यः समापेतुर्यत्र तिष्ठति केशवः ।
श्वगणस्तत्र राजेन्द्र चरत्येवं ततस्ततः ।। २३ ।।
ततः स भगवान् विष्णुः सर्वमालोक्य वेष्टितः ।
विस्मयं परमं गत्वा पश्यन्नास्ते स्म केशवः ।। २४ ।।
कस्यैष विस्तृतो नादः कस्य वायं जनोऽपतत् ।
को नु मां स्तौति भक्त्या वै भविष्ये प्रीतिमानहम्।। २५।।
कस्य मुक्तिः समायाता प्रीते मयि सुदुर्लभा ।
इति संचिन्त्य भगवानास्ते प्राकृतवद्धरिः ।। २६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां अष्टसप्ततितमोऽध्यायः ।। ७८ ।।