हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७७

विकिस्रोतः तः
← अध्यायः ०७६ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०७७
[[लेखकः :|]]
अध्यायः ०७८ →
देवेभिः सहितस्य श्रीकृष्णस्य बदरिकाश्रमे ऋषिभिः आतिथ्यसत्कारम्

सप्तसप्ततितमोऽध्यायः

वैशम्पायन उवाच
ततो मुनिगणा दृष्ट्वा देवदेवमुपस्थितम् ।
समाप्य चाग्निहोत्राणि सम्पूज्यातिथिसत्तमान्।। १ ।।
मुनयो दीर्घतपसः समाधौ कृतनिश्चयाः ।
जटिनो मुण्डिनः केचिच्छिराधमनिसंतताः ।। २ ।।
निर्मज्जा नीरसाः केचिद् वेताला इव केचन ।
अश्मकुट्टाशनपराः पर्णभक्षास्तथा परे ।। ३ ।।
वेदविद्याव्रतस्नाता निराहारा महातपाः ।
स्मरन्तः सर्वदा विष्णुं तद्भक्तास्तत्परायणाः ।। ४ ।।
आसन्नमुक्तयः केचित् केचिद्ध्यानैकतत्पराः ।
ध्यानेन मनसा विष्णुं दृष्टवन्तस्तपोधनाः ।। ५ ।।
संवत्सराशिनः केचित् केचिज्जलविचारिणः ।
शक्रस्य भयदातारः श्रुतिस्मृतिपरायणाः ।। ६ ।।
वसिष्ठो वामदेवश्च रैभ्यो धूम्रस्तथैव च ।
जाबालिः कश्यपः कण्वो भरद्वाजोऽथ गौतमः ।। ७ ।।
अत्रिरश्वशिरा भद्रः शङ्खः शङ्खनिधिः कुणिः ।
पाराशर्यः पवित्राक्षो याज्ञवल्क्यो महामनाः ।। ८ ।।
कक्षीवानङ्गिराश्चैव मुनिर्दीप्ततपास्तथा ।
असितो देवलस्तात वाल्मीकिश्च महातपाः ।। ९ ।।
एते चान्ये च मुनयो द्रष्टुमीश्वरमव्ययम् ।
आदायार्घ्यं यथायोगमुटजात्स्वात्समाययुः।। 3.77.१० ।।
ते च गत्वा हरिं कृष्णं विष्णुमीशं जनार्दनम् ।
भक्तिनम्रास्तदा देवं प्रणेमुर्भक्तवत्सलम् ।। ११ ।।
नमोऽस्तु कृष्ण कृष्णेति देवदेवेति केशवम् ।
प्रणवात्मञ्जगन्नाथ नताः स्म शिरसा हरे ।। १२ ।।
कृष्ण विष्णो हृषीकेश केशवेति च सर्वदा ।
प्रणामप्रवणा विप्राः प्राहुरित्थं जगत्पतिम् ।। १३ ।।
इदमर्घ्यमिदं पाद्यमिदं विष्टरमेव च ।
कृतार्थाः सर्वदा देव प्रसन्नो नो जगत्पतिः ।। १४ ।।
किं कुर्मः किं नु नः कृत्यं कश्चिद् दोषः प्रभो हरे ।
इति प्राञ्जलयः सर्वे प्राहुर्देवस्य पश्यतः ।। १५ ।।
कृष्णोऽपि तद् यथायोगमुपयुज्य सहामरैः ।
कृतं सर्वं मुनिवरा वर्धतां तप उत्तमम् ।। १६ ।।
इति ब्रुवन् पुराणात्मा प्रीतस्तेन गरुत्मता ।
आसनं लम्भयामास रात्रौ देवो जनार्दनः ।। १७ ।।
कुशलं पृष्टवान् भूयो मुनीनां भावितात्मनाम् ।
अग्निहोत्रेषु तपसि तथा भृत्येषु सर्वतः ।। १८ ।।
एवमादि जगन्नाथः पृष्टवानीश्वरस्तदा ।
सर्वत्र कुशलं तेऽत्र ब्रूयुः कृष्णस्य सर्वतः ।। १९ ।।
आतिथ्यं चक्रिरे ते तु नीवारैः फलमूलकैः ।
देवानामथ सर्वेषां विष्णोः कृष्णस्य यत्नतः।
आतिथ्यमुपयुञ्जानस्ततः प्रीतोऽभवद्धरिः ।। 3.77.२० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां सप्तसप्ततितमोऽध्यायः ।। ७७ ।।