सामग्री पर जाएँ

हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७६

विकिस्रोतः तः
← अध्यायः ०७५ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०७६
[[लेखकः :|]]
अध्यायः ०७७ →
गरुडोपरि आरूढो भूत्वा श्रीकृष्णस्य बदरिकाश्रमे गमनं, मार्गे देवेभिः मुनिभिश्च तस्य स्तुतिः

षट्सप्ततितमोऽध्यायः

वैशम्पायन उवाच
ततः संचिन्तयामास गरुडं पक्षिपुङ्गवम् ।
आगच्छ त्वरितं तार्क्ष्य इति विष्णुर्जगत्पतिः ।। १ ।।
ततः स भगवांस्तार्क्ष्यो वेदराशिरिति स्मृतः ।
बलवान् विक्रमी योगी शास्त्रनेता कुरूद्वह ।। २ ।।
यज्ञमूर्तिः पुराणात्मा साममूर्द्धा च पावनः ।
ऋग्वेदपक्षवान् पक्षी पिङ्गलो जटिलाकृतिः ।। ३ ।।
ताम्रतुण्डः सोमहरः शक्रजेता महाशिराः ।
पन्नगारिः पद्मनेत्रः साक्षाद् विष्णुरिवापरः ।। ४ ।।
वाहनं देवदेवस्य दानवीगर्भकृन्तनः ।
राक्षसासुरसंघानां जेता पक्षबलेन यः ।। ५ ।।
प्रादुरासीन्महावीर्यः केशवस्याग्रतस्तदा ।
जानुभ्यामपतद् भूमौ नमो विष्णो जगत्पते ।। ६ ।।
नमस्ते देवदेवेश हरे स्वामिन्निति ब्रुवन् ।
पस्पर्श पाणिना कृष्णः स्वागतं तार्क्ष्यपुङ्गवम् ।। ७ ।।
इत्युवाच तदा तार्क्ष्यं यास्ये कैलासपर्वतम् ।
शूलिनं द्रष्टुमिच्छामि शङ्करं शाश्वतं शिवम्।। ८ ।।
बाढमित्यब्रवीत् तार्क्ष्य आरुह्यैनं जनार्दनः ।
तिष्ठध्वमिति होवाच यादवान् पार्श्ववर्तिनः ।। ९ ।।
ततो ययौ जगन्नाथो दिशं प्रागुत्तरां हरिः ।
रवेण महता तार्क्ष्यस्त्रैलोक्यं समकम्पयत् ।। 3.76.१० ।।
सागरं क्षोभयामास पद्भ्यां पक्षी व्रजंस्तदा ।
पक्षेण पर्वतान् सर्वान् वहन् देवं जनार्दनम् ।। ११ ।।
ततो देवाः सगन्धर्वा आकाशेऽधिष्ठितास्तदा
तुष्टुवुः पुण्डरीकाक्षं वाग्भिरिष्टाभिरीश्वरम्।। १२ ।।
जय देव जगन्नाथ जय विष्णो जगत्पते ।
जयाजेय नमो देव भूतभावनभावन ।। १३ ।।
नमः परमसिंहाय दैत्यदानवनाशन ।
जयाजेय हरे देव योगिध्येय परागत ।। १४ ।।
नारायण नमो देव कृष्ण कृष्ण हरे हरे ।
आदिकर्तः पुराणात्मन् ब्रह्मयोने सनातन ।। १५ ।।
नमस्ते सकलेशाय निर्गुणाय गुणात्मने ।
भक्तिप्रियाय भक्ताय नमो दानवनाशन ।। १६ ।।
अचिन्त्यमूर्तये तुभ्यं नमस्ते सकलेश्वर ।
इत्यादिभिस्तदा देवं वाग्भिरीशानमव्ययम् ।। १७ ।।
तुष्टुवुर्देवगन्धर्वा ऋषयः सिद्धचारणाः ।
शृण्वन्नेवं जगन्नाथः स्तुतिवाक्यानि तानि च।। १८ ।।
ययौ सार्धं सुरगणैर्मुनिभिर्वेदपारगैः ।
यत्र पूर्वं स्वयं विष्णुस्तपस्तेपे सुदारुणम् ।। १९ ।।
लोकवृद्धिकरः श्रीमाँल्लोकानां हितकाम्यया ।
वर्षायुतं तपस्तप्तं विष्णुना प्रभविष्णुना ।। 3.76.२० ।।
यत्र विष्णुर्जगन्नाथस्तपस्तप्त्वा सुदारुणम् ।
द्विधाकरोत् स्वमात्मानं नरनारायणाख्यया ।। २१ ।।
गङ्गा यत्र सरिच्छ्रेष्ठा मध्ये धावति पावनी ।
यत्र शक्रः स्वयं हत्वा वृत्रं वेदार्थतत्त्वगम् ।। २२ ।।
ब्रह्महत्याविनाशार्थं तपो वर्षायुतं चरत् ।
यत्र सिद्धाश्च सिद्धाः स्युर्ध्यात्वा देवं जनार्दनम्।। २३ ।।
यत्र हत्वा रणे रामो रावणं लोकरावणम् ।
एतच्छासनमिच्छंश्च तपो घोरमतप्यत ।। २४ ।।
देवाश्च मुनयश्चैव सिद्धिं यान्ति शुचिव्रताः ।
यत्र नित्यं जगन्नाथः साक्षाद् वसति केशवः ।। २५ ।।
यत्र यज्ञाः प्रवर्तन्ते नित्यं मुनिगणैः सह ।
यस्याः स्मरणमात्रेण नरः स्वर्गं गमिष्यति ।। २६ ।।
स्वर्गसोपानमिच्छन्ति यां पुण्यां मुनिसत्तमाः ।
शत्रवो मित्रतां यान्ति यत्र नित्यं नृपोत्तम ।। २७ ।।
यामाहुः पुण्यशीलानां स्थानमुत्तमधर्मिणाम् ।
यत्र विष्णुं समाराध्य देवाः स्वर्गं समाययुः ।। २८ ।।
सिद्धक्षेत्रमिदं प्राहुर्ऋषयो वीतमत्सराः ।
विशालां बदरीं विष्णुस्तां द्रष्टुं सकलेश्वरः ।। २९ ।।
सायाह्ने चामरगणैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रविवेश महापुण्यमृषिजुष्टं तपोवनम् ।। 3.76.३० ।।
अग्निहोत्राकुले काले पक्षिव्याहारसंकुले ।
नीडस्थेषु विहङ्गेषु दुह्यमानासु गोषु च ।। ३१ ।।
ऋषिष्वप्यथ तिष्ठत्सु मुनिवीरेषु सर्वतः ।
समाधिस्थेषु सिद्धेषु चिन्तयत्सु जनार्दनम् ।। ३२ ।।
अधिश्रितेषु हविषु ज्वाल्यमानेषु चाग्निषु ।
हूयमानेषु तत्रैव पावकेषु समन्ततः ।। ३३ ।।
अतिथौ पूज्यमाने च संध्याविष्टे जगन्मणौ ।
स तस्यामथ वेलायां देवैः सह जनार्दनः ।। ३४ ।।
विवेश बदरीं विष्णुर्मुनिजुष्टां तपोमयीम् ।
आश्रमस्याथ मध्यं तु प्रविश्य हरिरीश्वरः ।। ३५ ।।.
गरुडादवरुह्याथ दीपिकादीपिते तदा ।
प्रदेशे पुण्डरीकाक्षः स्थितस्तावत् सहामरैः ।। ३६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां षट्सप्ततितमोऽध्यायः ।। ७६ ।।