हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०७९
[[लेखकः :|]]
अध्यायः ०८० →
भगवतः श्रीकृष्णस्य पार्श्वे पिशाचद्वयानां आगमनम्

एकोनाशीतितमोऽध्यायः

वैशम्पायन उवाच
तेषामनु महाघोरौ पिशाचौ विकृताननौ ।
प्रांशू पिङ्गलरोमाणौ दीर्घजिह्वौ महाहनू ।। १ ।।
लम्बकेशौ विरूपाक्षौ ही ही हा हेति वादिनौ ।
खादन्तौ मांसपिटकं पिबन्तौ रुधिरं बहु ।। २ ।।
अन्त्रवेष्टितसर्वाङ्गौ दीर्घौ कृशकृतोदरौ ।
लम्बमानमहाप्रान्तशूलप्रोतशिरोधरौ ।। ३ ।।
कर्षन्तौ शवयूथानि बाहुभ्यां तत्र तत्र ह ।
हसन्तौ विविधं हासं स्वजातिसदृशं नृप ।। ४ ।।
वदन्तौ बहुरूपाणि वचांसि प्राकृतानि च ।
कम्पयन्तौ महावृक्षानूरुपादप्रघट्टनैः ।। ५ ।।
सृक्किणीं लेलिहन्तौ च दन्तान्कटकटायिनौ ।
अस्थिस्नायुसमाकीर्णौ धमनीरज्जुसंततौ ।। ६ ।।
वदन्तौ कृष्ण कृष्णेति माधवेति च संततम् ।
कदा नु द्रक्ष्यते विष्णुः स इदानीं क्व तिष्ठति ।। ७ ।।
स्वामिनः कुत्र वसतिः कुतो द्रष्टुं यतामहे ।
अत्र वा कुत्र देवेशः कुतो नु स्थास्यते हरिः ।। ८ ।।
कुतः पद्मपलाशाक्षः साक्षादिन्द्रानुजो हरिः ।
यमाहुः पुण्डरीकाक्षं ब्रह्म ब्रह्मविदो जनाः ।। ९ ।।
तमजं पुरुषं विष्णुं द्रष्टुमभ्युद्यता वयम् ।
अन्तकाले जगन्नाथं प्रविवेश जगत्त्रयम् ।। 3.79.१० ।।
तमजं विश्वकर्तारं कुतो द्रक्ष्याम साम्प्रतम्।
यस्य विस्तार एवैष लोकः प्राणिनिवासिनः ।। ११ ।।
तं द्रष्टुं देवमीशानं यतामः साम्प्रतं हरिम् ।
दशा घोरतमा लोके विद्विष्टा सर्वजन्तुभिः ।। १२ ।।
पैशाचीयं समुत्पन्ना कथं नौ प्राविशद्बलात्।
नरमांसास्थिकलुषा सर्वभीतिप्रदायिनी ।। १३ ।।
अहो नौ दुष्कृतं कर्म प्राक्तने कर्मसंचये ।
अत्रैव महती प्रीतिर्वर्तते सर्वदा तथा ।। १४ ।।
यावन्नौ दुष्कृतं कर्म तावत्स्थास्यति तादृशी ।
दशा सा सर्वविद्विष्टा प्राणिपीडनकारिणी ।। १५ ।।
सर्वथा दुष्कृतं कर्म बहुभिर्जन्मसंचयैः ।
तथा हि तत्फलं घोरमद्यापि न निवर्तते ।। १६ ।।
यताः स्म प्राणिनो हन्तुं श्वगणैः सह साम्प्रतम् ।
तथा हि प्राणिनो लोके बाल्यमादौ समास्थिताः ।। १७ ।।
अज्ञानावृतचित्ताश्च कृत्याकृत्यं न जानते ।
तथा यौवनिनो भ्रान्ता विषयैर्बहुलीकृताः ।। १८ ।।
यतन्ते श्रेयसे नैव ततो विषयसंस्थिताः ।
विषयाविष्टचित्ता हि मनुष्या न विजानते ।। १९ ।।
तथा च वृद्धभावे तु व्याधिभिर्बहुभिर्वृताः ।
ज्वरादिभिर्महाघोरैर्नानादुःखविधायिभिः ।। 3.79.२० ।।
यतन्ते न हि वै श्रेयो विनष्टेन्द्रियगोचराः ।
ततो मृता गर्भवासे वसन्ति सततं नराः ।। २१ ।।
विण्मूत्रकलिले घोरे दुःखैर्बहुभिराचिताः ।
च्यवन्ते तु ततो घोराद्गर्भात्संसारमण्डले ।। २२ ।।
परस्परं विहिंसन्तः कुर्वन्तः कर्मसंचयम् ।
महत्येवं सदा घोरे संसारे दुःखसंकुले ।। २३ ।।
पापानि बहुरूपाणि कुर्वतेऽज्ञानतस्तदा ।
संसारस्यैष महिमा विस्तृतः सर्वजन्तुषु ।। २४ ।।
अच्छेद्यः शस्त्रसम्पातैरुपायैर्बहुभिः सदा ।
एतस्मान्न निवर्तन्ते मर्त्याः प्राकृतबुद्धयः ।। २५ ।।
इमं हत्वा मनुष्येन्द्रमिदमस्माद्धराम्यहम् ।
चोरयित्वा धनमिदं हरिष्याम्याददाम्यहम् ।। २६ ।।
निर्भर्त्स्यैनमिमं शान्तं हरिष्यामि धनं बली ।
इत्यादिव्याकुला मूर्खा यतन्ते प्राणिपीडनम् ।। २७ ।।
अस्यैव दुःखमूलस्य संसारस्य सदा हरिः ।
भेषजं सर्वथा देवः शङ्खचक्रगदाधरः ।
आदिदेवः पुराणात्मा आत्मा ब्रह्मविदां सदा ।। २८ ।।
ते वयं सर्वयत्नेन द्रक्ष्यामः सर्वथा हरिम् ।
इत्थं पिशाचौ भाषन्तौ प्रादुरास्तां हरेः पुरः ।। २९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायामेकोनाशीतितमोऽध्यायः ।। ७९ ।।